________________ श्रीसूर्यसहस्रनामसङ्ग्रहवयम् "स्कन्दः" 186 इति / स्कन्दति-विनाशयति अरीनिति स्कन्दः, दैत्यविनाशकत्वेन प्रतीतत्वात् / स्कन्दति-अमृतरूपेण श्रवतीति वा / 'स्कदिञाप्लाव-उद्वतौ' इति रूपम् / / 186 / / "सुलोचनः" 187 इति / सुष्टु शोभने-देवत्वेन निमेषवर्जिते लोचने यस्य स तथा / अशरीरत्वे तु सुष्टु-ज्ञानरूपं लोचनं यस्येति वा // 187 / / “समाहितमति:" 188 इति / सम्यक्प्रकारेण आहिता-स्थापिता मतिर्येन स तथा / समा-शत्रुमित्रोदासीना, समन्ताद्भावेन सर्वजन्तुषु हिता मतिर्यस्येति वा // 188 // “समायुक्तः" 189 इति / आयुज्यत इति आयुक्तः, व्यापृतः / स्वस्वकर्तव्यतायां सम्यक्तया प्रवृत्तः / सह मया-लक्ष्म्या वर्तत इति समः, कृष्णः / तेन आ-समन्ताद् युक्त इति वा एकमूर्तित्वात् / / 189 // / “समाकृति:" 190 इति / आकरणम् आकृति:, संस्थानविशेषः / शोभना यस्य स तथा / समा:-सज्जनाः, तेषु आकृति:-प्रयन्नो यस्येति वा / समासरुचिरा कृति:-करणं यस्माद् वा, विष्णुरूपेण तदुत्पादकत्वात् / / 190 / / "सुमहाबलः" 191 इति / सुष्टु रोगादिनाऽप्रतिहतं महाबलं यस्य स तथा। सुष्टु बलं-रूपं यस्येति वा / 'बलं गन्ध-रसे रूपे // ' इति मेदिनिः // 191 // “समुद्रः" 192 इति / मुद्रया-आकृतिविशेषेण वर्तते यः स तथा / यदि वा समुद्रवदपारत्वात् समुद्रः / समुदः-हर्षयुक्तान् राति-स्वीयत्वेन गृह्णातीति वा // 192 / / "सुमूर्तिः" 193 इति / सुष्टु-शोभना मूर्तिः-अनुभावो यस्य स तथा / 'अनुभावे स्त्रियां मूर्तिः / / ' इति मेदिनिः / सुष्टु-शोभना वृत्ताकारेण दृश्यमाना मूर्तिर्यस्येति वा / / 193 / / "सुमेधाः' 194 इति / सुष्टु-विशेषग्राहिणी मेधा-बुद्धिर्यस्य स तथा // 194 // 65