________________ श्रीसूर्यसहस्रनामसङ्ग्रहवयम् "सुविशिष्टः" 177 इति / सुतरां सर्वेभ्यो विशिष्टः-उत्कृष्टः // 177 // “सविता" 178 इति / सूते समीहितार्थ प्रकाशं वा, प्रतिदिनं प्रकाशकारित्वात् // 178|| “सैहिकेयरिपुः" 179 इति / सिंहिकाया अपत्यं सैंहिकेय:, राहुः / लोकरूढ्या तस्य रिपुः / 'वस्तुत: सोममण्डलछायैव ग्रहणम्' इति ज्योतिर्विदः; विष्णुरूपेण तन्नाशकत्वात् // 179 // "स्वयंविभुः" 180 इति / स्वयम्-आत्मना विभुः-स्वामी, न परप्रदत्तैश्वर्यः / अन्येषां तद्दत्तैश्वर्येण विभुत्वात् / / 180 // "सुखदः" 181 इति / सुखं-प्रसिद्धं ददातीति सः / सुष्टु खानि-इन्द्रियाणि ददातीति वा // 18 // "सुखप्रदः" 182 इति / सुष्टु खानि-ज्ञानरूपाणीन्द्रियाणि यस्य स सुख: / प्रकर्षेण ददातीति प्रदः, पश्चात् कर्मधारयः / सुष्टु खनन्तीति सुखाः, मुनयः / तान् प्रकर्षेण ददातीति वा। 'खमिन्द्रिये सुखे स्वर्गे शून्ये बिन्दौ विहायसि / नृपे संवेदने क्षेत्रे कृष्यां हलफले क्वचिद् / / ' इति विश्वः // 182 // "सुखी' 183 इति / सुखं विद्यते यस्मिन् स तथा / सर्वसाधारणत्वेऽपि सर्वदा चिदानन्दस्वरूपत्वादन्येभ्यो भेदः // 183 / / "सुखसेव्यः" 184 इति / सुखेन सेव्यत इति सुखसेव्यः, नमस्कृतिमात्रेणैव तत्सपर्यापर्याप्तेः // 184 // “सुकेतनः" 185 इति / सुष्टु केतनः सुकेतनः, ध्वजः; तद्वत्प्रतीयमानत्वात् / शोभनानि केतनानि-कृत्यानि स्मृतिप्रभृतीनि यस्येति वा / शोभनानि कृत्यानि सृष्ट्यादीनि यस्येति वा / 'गृहे केतौ च कृत्ये च केतनं * समुदीरितम् // ' इति मेदिनिः // 185 // 64