________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "सुसंयुक्तः" 165 इति / सुष्ठु-अपृथग्भावेन परब्रह्मणि युक्त:-मिलितः, सर्वैः पदार्यै: सह सम्बद्ध इति वा; विभुत्वेन सकलमूर्तसंयोगित्वात् / / 165 / / “सुस्थितः" 166 इति / सुष्टु-पतनाभावेन स्थितः, अनन्तशक्तिमत्त्वात् // 166 // "स्वजन:' 167 इति / कुटुम्बसदृश: सर्वेषां त्रायकत्वात् / स्वं-धनं जनयतीति वा, अर्थप्रदातृत्वात् / / 167|| : "सुवेश:" 168 इति / सुष्टु-अप्रतिहतगतित्वेन वेश:-प्रवेशो यस्य स तया। सुष्टु-शोभनं वाऽतिगच्छतीति / सुवा(?व:)-प्राणः, तस्येश इति वा // 168 // "सूक्ष्मः" 169 इति / श्लक्ष्णत्वाद् दुर्जेयत्वाद् वा सूक्ष्मः / / 169 / / "सूक्ष्मधीः" 170 इति / सूक्ष्मा-अतीन्द्रियार्थग्राहिणी धीर्यस्य स तथा // 170 // . . "सोमः" 171 इति / आह्वादकत्वाद् यज्ञसाधनत्वाद् वा सोमः / / 171 / / "सूर्यः" 172 इति / सरति सूते वा लोकानिति सः // 172 // "सुवर्चा" 173 इति / सुष्टु-शोभनं वर्चस्-तेजो यस्मादिति सः / 'व! दीप्तौ पुरीषे च, वर्ची रूपेऽपि च क्वचिद् / / ' इति विश्वः // 173 / / "सुवर्णः" 174 इति / सुष्टु-शोभनो वर्ण:-गौरत्वलक्षणो यस्य यस्माद् वा स तथा / सुष्ठु वर्ण:-जातिलक्षणो यस्मादिति वा / सुष्टु वर्ण्यते-स्तूंयते इति वा // 174 // "स्वर्णः" 175 इति / सुवर्णोऽस्येति, पृषोदरादित्वाद् उकारलोपे स्वर्णं पुंक्लीबलिङ्गः / तन्मयत्वात् / 'अहं धातुषु काञ्चनम् / / ' इति भागवतोक्तेः // 175 // "स्वर्णरेताः" 176 इति / स्वर्णं-हिरण्यं रेत:-वीर्यं यस्य स तथा, स्वनिहततेजस्कत्वाद् दाहकत्वाद् वा // 176 / / / 63