________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् इष्टः / 'सर्वासु सप्तमीषु तिथिपतित्वेन रवि: पूज्यः' इति निर्णयामृतोक्तेः / 'अग्निर्विरञ्चिर्गिरिजा गणेशः' इत्यादिना सप्तम्याः पती रविरिति प्रतिपादनाच्च / षड्भिरङ्गैः सप्तमेन वेदेन च मीयत इति सप्तमी, पश्चात् कर्मधारय इति वा / आत्मत्वाद् वेदैकगम्यत्वाच्च प्रियत्वं स्पष्टम् / / 156 / / “सप्तिमान्" 157 इति / सप्तय:-अश्वा विद्यन्ते यस्य स तथा / 'वाजिवाहा-ऽर्व-गन्धर्व-हय-सैन्धव-सप्तयः / / ' इत्यमरः / सप्तीनाम्-अश्वानां रेवन्तप्रमुखाणां मां-लक्ष्मीम्, आनयति-प्राणयतीति वा, तेषां सूर्यजन्यत्वात् // 157 / / "सप्तसप्ति:" 158 इति / सप्तसङ्ख्याः सप्तयः-अश्वा यस्य स तथा, सङ्ख्याप्रधानत्वाद् पूर्वस्माद् भेदः // 158|| “सप्ततुरग:"१५९ इति / सप्तानां लोकानां तुरग:-हृयदम्, सर्वान्त:करणाधिष्ठातृत्वात् / 'तुरगश्चित्त-वाजिनोः // ' इति मेदिनि: // 159|| "स्वम्' 160 इतिः / अस्यते-क्षिप्यते इति स्वम्, तदुपलब्धावसाधारणकारणीभूतत्वात् / पुल्लिङ्गत्वे तु सर्वेषामात्मा स्वान्यात्मात्मीयज्ञातिमित्राणीत्यभियुक्तप्रसिद्धेः // 160 // "स्वाहाकारः" 161 इति / स्वाहा-मन्त्रविशेषः, तदेवाकारो यस्य स तथा, मन्त्रात्मकत्वात् स्वाहाकारप्रवर्तकत्वाद्वा; तदुदये तत्प्रवृत्तेः // 161 / / “सुवाहनः" 162 इति / सुष्टु वाहनं यस्य स तथा / सुष्टु वाहयतिप्रापयतीति वा // 162 // "स्वाहाभुक्' 163 इति / यजमानैः स्वाहाशब्देन यद् वह्नौ क्षिप्तं तद् भुङ्क्ते इति स तथा, सर्वान्तर्गतत्वात् // 163 / / "स्वाचारः" 164 इति / सुष्टु आचारो-जगत्पावित्र्यलक्षणो यस्य स तथा, तत्प्रणेतृत्वात् / / 164 / /