________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "सभाजित:" 145 इति / पूजितः सर्वध्येयत्वात्, ‘सभाजत्कसेवने प्रीतिदर्शने' इत्युक्तेः / त्रिजगज्जनैः सेवित इति वा // 145 / / "सुप्रभः" 146 इति / सुष्टु प्रभा-कान्तिर्यस्येति सः / सुष्टु प्रभवतीति दैत्यानिति वा // 146 // "सुप्रदीपकः” 147 इति / सुतरां प्रदीपकः सुप्रदीपकः, सर्वप्रकाशकारित्वात् / / 147|| "सुप्रभावनः" 148 इति / सुष्टु प्रभा येषां ते सुप्रभाः, देवाः / तेषाम् अवनं-रक्षणं यस्मात् सः // 148 / / "सुप्रभाकारः' 149 इति / सुप्रभा आकारा यस्मात् स तथा / सुष्टु अनिर्वचनीयस्वरूपा प्रभा क्रियतेऽनेनेति वा // 14 // “सुप्रियः" 150 इति / सुष्टु प्रियः सुप्रियः, सर्वेषां वल्लभः // 150|| "सुपर्णः" 151 इति / सुष्टु-शोभनौ पर्णी-श्वेतकृष्णपक्षौ यस्य स तथा। शोभनानि पर्णानि-छन्दांसि यस्येति वा सर्ववेदात्मकत्वात् / / 151|| “सप्तार्चिः" 152 इति / सप्तसङ्ख्या: अर्चिष:-कान्तयो यस्य स तथा, सवितुर्वह्निनिहिततेजस्कत्वात् / सप्तसु लोकेषु अर्चिषो यस्येति वा // 152| “सप्ताश्वः" 153 इति / सप्तसङ्ख्या अश्वा लोकरूढ्या रथ्या यस्य स तथा // 153 // “सप्तजिह्वः" 154 इति / सप्त जिह्वाः-स्वररूपा यस्य स तथा, वेदनिरूपकत्वात् / / 154 // “सप्तलोकनमस्कृत:" 155 इति / सप्त च ते लोकाश्चेति कर्मधारयः, अत्राऽऽधारा-ऽऽधेययोरभेदोपचारात् तद्वासिनो जनाः, तैर्नमस्कृतः / सप्तानां ग्रहाणां मध्ये लोकनमस्कृत इति वा // 155 // “सप्तमीप्रियः" 156 इति / सप्तमी तिथिः / तस्या अधिष्ठातृत्वेन प्रिय: 61