________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् तथा, दैत्यविनाशकत्वात् / सहस्रं करा:-बलयो यस्मै इति वा / 'बलि-हस्तांऽशव: कराः // ' इत्यमरः // 137 // “सहस्रकिरण:" 138 इति / सहस्रं-सहस्रगुणम् अर्थात्तमः किरतिविक्षिपतीति सः / सहस्रं किरतीति वा, सहस्रमित्युपलक्षणं कोटाकोटिप्रदानक्षमः // 138|| "सहस्ररश्मिः " 139 इति / सहस्रं रश्मय:-अविद्यारूपबन्धनानि यस्मात् सः / / 139|| "सदायोगी" 140 इति / सदा-सर्वदा योग:-यमाद्यष्टभिरङ्गैः प्रसिद्धः / सोऽस्यास्तीति सदायोगी। दान-दाः, तेन सहिताः सदाः / युनक्ति धर्मेष्विति योगी, पश्चात् कर्मधारय इति वा / / 140 / / "सदागति:" 141 इति / सदा-सर्वकालं गति:-गमनं ज्ञानं वा यस्य स तथा / सदा-कालत्रये गति:-स्वर्गप्राप्तिलक्षणा यस्मादिति वा / सतां-देवानां मनुष्यक्षेत्रे आगति:-गमनं यस्मादिति वा, सर्वेषां तदुत्पाद्यत्वात् / सद्भिः प्राप्य इति वा // 141 // "सुधर्मा' 142 इति / दधाति-स्थापयति सुगताविति धर्मः / यदुक्तं हेमसूरिभिः- 'दुर्गतिप्रपंतत्प्राणिधारणाद् धर्म उच्यते / / ' इति / सुष्टु-शोभनो धर्मो यस्य स तथा; 'धर्मादन्' इत्यन् / / 142 / / "सिद्धः” 143 इति / सिध्यति स्मेति सिद्धः, परमपदप्रतिष्ठितत्वाद् निष्पन्नकार्यत्वाद् वा // 14 // "सिद्धकार्य:" 144 इति / सिद्धानि-मङ्गलानि कार्याणि यस्मात् स तथा / 'षिधू शास्त्रे माङ्गल्ये च' इत्युक्तेः / सिद्धानि-परिपूर्णीभूतानि कार्याणि यस्येति वा, अप्रतिहतेच्छत्वात्। सिद्धान्-कर्मनिर्मुक्तान् कुर्वन्तीति सिद्धकाः, एवंविधा आर्या यस्मादिति वा // 144 / 10 // - 60