________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् हिंसासक्तः पुरुषः, तत्र धन्वा, तन्निवारकत्वात् / सारङ्गः-अग्नि:, स. एव धनु:-स्थलं स्वतेजस: स्थापने यस्येति वा / 'दिनान्ते निहितं तेजः सवित्रेव हुताशनः // ' इत्युक्तेः / / 129|| . "सहस्राक्षः" 130 इति / सहस्राणाम् अक्षः-स्तुत्यः / सहस्रप्रमिता अक्षा:-व्यवहारा यस्येति वा // 130 // “सहस्रांशुः" 131 इति / सहस्रमंशवो यस्य स तथा / सहस्रधा जगत् तेन तेन रूपेण अंशयति-विभजतीति वा / / "131 // “सहस्रधामा" 132 इति / सहस्रं-सहस्रप्रकारं धाम-बलं तेजो वा यस्य स तथा / सहस्रधा मिमीते विश्वमिति वा क्विप्प्रत्ययान्तः / सहस्रं धामानिप्रभावा यस्येति वा / 'गृह-देह-त्विट्-प्रभावा धामानि // ' इत्यमरः // 132 // "सहस्रदीधिति:" 133 इति / सहस्रं दीधीते-दीप्यतीति सः / सहस्रं दीधितय:-क्रीडनानि यस्येति वा / 'दीधीङ् दीप्ति-देवतयोः' इत्यस्य क्तिप्रत्ययान्तस्य रूपम् // 133 // “सहस्रपात्" 134 इति / सहस्रं पिबतीति-पृथिव्यादि, क्रमेण लीलं करोतीति सहस्रपाः,प्रकृतिः / ताम् अत्तीति सहस्रपात्; प्रलये स्वयमेवावशिष्टः / सहस्रं पान्तीति सहस्रपाः, दैत्याः / तान् अत्तीति वा // 134 / / "सहस्रचक्षुः" 135 इति / सहस्रं चष्टे सहस्रचक्षुः / सहस्रशब्देनाऽत्र बहुत्वोक्तेः सर्वद्रष्टेत्यर्थः / सहस्रैः-अपरिमितैः चक्ष्यते-ख्यायते प्रतिपाद्यत इति सहस्रचक्षुः / / 135 // "सहस्रोस्रः" 136 इति / सहस्रमुस्रा:-धर्मा यस्मात् स तथा / सह:-बलं रातीति तेन राजन्ते वा सहस्रा इन्द्रादिदेवाः / ते वसन्त्यस्मिन्निति वा सर्वदेवात्मकत्वात् // 136 // "सहस्रकरः" 137 इति / सहस्रेषु अर्थाद् दैत्येषु कर:-दण्डो यस्य स