________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् ||119|| // इत्येकोनविंशत्यधिकं नाम्नां शतं स्वरादि / / “साधुः" 120 इति / साध्यते सम्यग्दर्शनादिना परमपदमिति साधुः // 120 // "सावर्णिः" 121 इति / आ-समन्ताद्भावेन वर्णनम्-आवर्णिः, तया सह वर्तत इति सावर्णिः, सर्वस्तुत्य इत्यर्थः / “सावर्णः" इति पाठे तु वर्णाभावेन सह वर्तत इति सावर्णः, वर्णानां पश्चादुत्पन्नत्वात् // 121 // "सावित्रीभाविता" 122 इति / सावित्री-गायित्री, तां भावयतिप्रापयतीति सावित्रीभाविता / 'भू प्राप्तौ' इत्यस्य रूपम् / णिज्लोपश्छान्दसः / / 122 / / “सायनः" 124 इति / अयनाभ्यां दक्षिणोत्तराभ्यां सह वर्तत इति सः, तत्कारित्वाद् वा // 124 // . “सौख्यम्'' 125 इति / सुखयतीति सुखम् / सुष्टु खनतीति / सु-शोभनानि खानि-इन्द्रियाणि अत्रेति वा / तद्भाव: सौख्यम्, तदात्मकत्वात् तत्कारित्वाद् वा // 125|| “सागरः" 126 इति / सगरस्यायं सागरः, तत्खनितत्वाद् / अत्र गाम्भीर्यादिगुणैरभेदोपचारः // 126 // "साम;" 127 इति / 'वेदानां सामवेदोऽहम्' इति भारतोक्तेर्वेदोत्तम इत्यर्थः / साम-दाम-भेद-दण्डा उपाया इति / अत्रस्थ 'साम' शब्दप्रयोगे अस्यति वैरमनेनेति साम, सर्वेषां वैरनाशक इत्यर्थो ज्ञेयः // 127 / / "सामवेदः" 128 इति। 'साम' इति नाम्ना वेदः, तत्प्ररूपकत्वात्; कारणे कार्योपचारः / साम वेत्तीति वा / 'साम' इत्युपलक्षणं सर्ववेदविदित्यर्थः // 128 // "शार्ङ्गधन्वा" 129 इति / शार्ङ्ग धनुर्यस्य स शार्ङ्गधन्वा, कृष्णः; सर्वव्यापकत्वात् / शार्ङ्गधनु:-स्थलं यस्येति वा / 'धन्वा तु मरुदेशे ना क्लीबं .चापे स्थलेऽपि च / / ' इति विश्वः / / “सारङ्गधन्वा" इति पाठे तु सारङ्गः 58