________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "उष्णकरः" 111 इति / उष्णाः करा:-किरणा यस्य स तथा / ननु पूर्वपरयोः समानार्थत्वात् पुनरुक्ततादोषः इति चेद्, न / समानार्थत्वेऽपि 'दण्डाकारा रश्मयः कराः' इति निरुक्तिभेदाद् भेदः / उष्णम्उष्णतागुणयुक्तमर्थाज्जगत् करोतीति वा / उष्ण: कर:-प्रतापो यस्येति वा / 'करो वर्षोपले रश्मौ, प्रतापे प्रीति-शुण्डयोः / / ' इत्यनेकार्थः / / 111 // "अश्विनः" 112 इति / असूनां-प्राणानाम्, इन:-स्वामी, वृष्ट्यादिद्वाराऽन्नसम्पादकत्वेन तद्धास्कत्वात्, मासाधिपतित्वाद् वा / / 112 / / “अशिशिरः" 113 इति / न विद्यते शिशिर:-शीतलतालक्षणो गुणो यस्य स तथा, अजड इति वा / 'शिशिरो ना हिमे वा स्त्री ऋतुभेदेऽजडे त्रिषु / ' इति मेदिनिः // अ-अरुण:, तेन शिशिर:-शीतलः, सर्वदाऽपृथग्भूतत्वात्। प्रसन्नस्वान्त इति वा // 113|| . "अतुलद्युति:" 114 इति / न विद्यते तुला-साम्यं यासां ताः अतुलाः, एवंविधा द्युतयो यस्येति स तथा // 114 // “अतीन्द्रः" 115 इति / इन्द्रं अतिक्रान्त अतीन्द्रः; तेजस्वितया इन्द्रादधिक इत्यर्थः / अतिशयेनेन्दति-परमैश्वर्येण शोभते इति वा // 115 // "अतीन्द्रियः" 116 इति / इन्द्रियमतिक्रान्तो यः स तथा, क्रान्ताद्यर्थे समासः / इन्द्रियजन्यज्ञानागोचरः // 116 / / "उत्तमः" 117 इति / उद्गतं तमो यस्मात् सः / 'क्षीणे च तमसं तमः' इत्यकारान्तदर्शनात् / उत्कर्षकाष्ठां गत इति वा, तदपेक्षोत्कृष्टाभावात् // 117 // "उत्तरः" 118 इति / उत् प्राबल्येन तीर्यते संसारसागरमनेनेति सः // 118 // "तरणंतरः" 119 इति / उद्गतसूरः संसारसागरतरणोपायो यस्माद् वा 57