________________ श्रीसूर्यसहस्रनामसङ्घहत्रयम् इत्यर्थः // 102 / / . "अर्हन्" 103 इति / सुरा-ऽसुरेन्द्रादिकृतां पूजामर्हतीति अर्हन्, 'अर्ह पूजायाम्' // 103 / / "अरविन्दाक्षः" 104 इति / अरविन्दं-कमलं तद्वद् अक्षिणी-लोचने यस्य स तथा / अरं-चक्रं विन्दति-प्राप्नोतीति अरविन्दः,विष्णुः / तस्य अक्ष:स्तुत्यः। 'अक्षो ज्ञानात्म-शकट-व्यवहारेषु पाशके / रुद्राक्षेन्द्राल्पयोः स्तुत्ये विभीतकतरावपि // ' इति मेदिनीकारः / / 104 // “अर्यमा" 105 इति / आकाशमार्गेण गमनशीलः / 'अर्य: स्वामिवैश्ययोः' // इति / अर्याणां-स्वामिनां मननं मन्, ज्ञानं यस्माद्वा / / 105|| “अर्कः" 106 इति / अय॑ते-स्तूयतेऽर्च्यते इति वा अर्कः // 106 // "अरिमर्दनः" 107 इति / अरीन्-शत्रून् मर्दयति-नाशयतीति अरिमर्दनः / अरं-पापम्, तद् अस्यास्तीति अरी, पापी / तन्नाशक इति वा / 'अरं शीघ्र च चक्राङ्गे शीघ्रगे कल्मषेऽपि च // ' इति धरणिः // 107|| "अरुणसारथिः" 108 इति / अरुण:-विनतासूनुः, स एव सारथिर्यस्य स तथा / आरक्तमण्डलत्वादरुणः, अन्तर्यामितया धर्मा-ऽधर्मप्रेरकत्वात् सारथिः, पश्चात् कर्मधारय इति वा // 20 // "अश्वत्थः'' 109 इति / अश्वत्थ:-पिष्पलकः, सर्वदेवात्मकतयाऽस्य प्रसिद्धेस्तन्नामंता / / 109 / / "अशीतरश्मि:' 110 इति / अशीता:-उष्णा: रश्मयो यस्य स तथा / न विद्यते शीतं यस्मादिति अशीत:, अग्निः / स रश्मि:-मूर्त्यन्तरं यस्येति वा / 'किरणे प्रग्रहे रश्मिस्तथा मूर्त्यन्तरे पुमान् // ' इति मेदिनिः / शमनं-शीः / न शीः अशी: / ताम् इता:-प्राप्ताः रश्मयो यस्येति वा // 110 // 56