________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् . . “अन्नम्" 94 इति / तस्य परिपाकहेतुत्वेन कारणे कार्योपचारः, सर्वपोषकत्वाद् वा // 9 // "अनन्तः" 95 इति / न विद्यते अन्त:-विनाशः, अयमेतादृगिति निश्चयो वा यस्य स तथा, देश-काल-वस्तुपरिच्छेदाभावाद् वा // 95 / / "अनिर्देश्यः" 96 इति / गुण-क्रिया-जातिभिर्निर्देष्टुमशक्यः / / 96 // "अनिर्देश्यवपुः" 97 इति / अनिर्देश्यम्-अनिर्वचनीयं वपुः-शरीरं यस्य स तथा, तेजोमयत्वात् / / 97 // . "अंशुः" 98 इति / अश्नुते-व्याप्नोतीति अंशुः / औणादित्वात् साधुः, गुण-गुणिनोरभेदोपचारः // 98 // "अंशुमान्" 99 इति / अंशवो विद्यन्ते यस्य यस्मिन् वा स तथा, अस्त्यर्थे मतुः / / 99 / / "अंशुमाली" 100 इति / अंशूनां मां-शोभाम्, आनयति-प्राणयतीति वा अंशुमालीति / अंशूनां माला-परम्परा विद्यते यस्य स तथा / अंशून् मालयतिधारयतीति वा / 'मल् धृतौ' इत्यस्य रूपम् / / 100 // // इति पादसाहश्रीअकब्बरसूर्यसहस्रनामाध्यापकश्रीशत्रुञ्जयतीर्थकरमोचनाद्यनेकसुकृतविधापकमहोपाध्यायश्रीभानुचन्द्रगणिविरचितायां ताच्छिष्याष्टोत्तरशता-वधानसाधनप्रमुदितपादशाहश्रीअकब्बरप्रदत्त . 'खुस्फहमा'ऽपराभिधानमहो-पाध्यायश्रीसिद्धिचन्द्रगणिशोधितायां शेखश्रीअबुलफजलकारितायां चतुश्चत्वारिंशदधिकश्रीसूर्यसहस्रनामटीकायां प्रथमशतविवरणं समाप्तम् // "अनुत्तमः" 101 इति / न विद्यते उत्तमो यस्मात् स तथा / 'न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यः' इति स्मृतेः // 101 // "अरिहा" 102 इति / अरीन् हन्तीति अरिहा, भक्तशत्रुविनाशक