________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् डः / मुख्यवृत्त्याऽस्यैव तद्धेतुत्वात् / / 85|| "अम्बरभूषण:" 86 इति / अम्बरस्य-आकाशस्य भूषणम्, तद्गतनीलतायाः प्रकाशकारित्वात् / केवलं 'भूषणः' इति पाठे, भूषयतीति भूषणः / / 86 // "अनेकः" 87 इति / न एकः अनेकः, द्वादशात्मकतया प्रसिद्धः / मायाविजृम्भितानेकरूप इति वा / / 87|| "अङ्गारकः" 88 इति / अङ्गानि इयर्तीति अङ्गारकः, कुजः / अत्र सेव्यसेवकयोरभेदोपचारः, अङ्गारवर्णत्वाद् वा / / 88 // "अङ्गिरा" 89 इति / अङ्गिरा-ऋषिः, अत्र ध्यातृ-ध्येययोः कथञ्चिदैक्यात् तदुपचारः / अङ्गिन:-प्राणिनः, राति-स्वीयत्वेन गृह्णातीति क्विप्प्रत्ययान्तस्य रूपं वा // 89 // . “अनल:" 90 इति / अनितीति अनलः, वह्निः / दाहकत्वगुणयोगात् तदभिधानता / अलतीति अलः, न अलः अनल:-अपर्याप्तः, अर्थाद् गमनादिति वा / अनान् प्राणान् लाति आत्मत्वेनेति वा, सर्वान्तर्गामित्वात् // 9 // "अनलप्रभः" 91 इति / अनल:-वह्निः, तद्वत् प्रभा यस्य स तथा, स्वपरप्रकाशकत्वात् / 'यच्चन्द्रमसि यच्चानौ तत् तेजो विद्धि मामकम्' इति पुराणोक्तेः / अनलप्रभा यस्येति वा // 91 // "अनिमित्तगति:" 92 इति / अनिमित्ता-साधननिरपेक्षा गतिर्यस्येति सः, स्वभावादेव गतिमानित्यर्थः / गत्यर्थ-ज्ञानार्थयोरैक्याद् अनिमित्तापठनव्यतिरेकेण गति:-ज्ञानं यस्येति वा // 12 // "अनङ्गः" 93 इति / न विद्यते अङ्ग-शरीरं यस्य स तथा परब्रह्मरूपत्वेन, शरीराभावात् पाञ्चभौतिकशरीररहित इति वा ज्योतिर्मयस्वरूपत्वात् // 93 // 54