________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "अमित:" 76 इति / अमितं-प्रचुरमात्तेजो यस्य स तथा / देशतः कालतश्चापरिच्छिन्न इति वा / मानातीत इति वा / / 76 / / "अमितात्मा" 77 इति / अमित:-सर्वव्यापक आत्मा यस्येति सः, सर्वत्र तदुपलब्धेः / अमिता:-असङ्ख्याताः आत्मानः-स्वरूपाणि यस्येति वा / / 77 // "अणुः" 78 इति / अणतीत्यणु:, . किञ्चिन्यूनदैवतयोजनप्रमितमण्डलत्वेऽपि अत्राल्पतया दृश्यमानत्वात् / अणु:परमाणुस्तद्वदिव सर्वत्राऽप्रतिहतगतिरिति वा // 78|| "इनः" 79 इति / एतीति इनः, सर्वदा गमनस्वभावत्वात् / इं-काममर्थात् क्षयं नयतीति इनः; सर्वप्रभुरिति वा जगत्कारित्वात् / / 79 // "अनाद्यन्तः" 80 इति / आदिश्चान्तश्च तौ न विद्यते यस्य स तथा, उत्पत्ति-विनाशरहितः / / 80 // . . “अन्धकारापहः" 81 इति / अन्धं करोतीति अन्धकारः, तम् अपहन्तीति अन्धकारापहः-तमोविनाशकः / अन्धकारवद् आवरकत्वाद् अन्धकार:अज्ञानम्, तन्निवारक इति वा / / 81 / / / / "इन्द्रः" 82 इति / इन्दनाद् इन्द्रः / 'इदि परमैश्वर्ये! औणादिको 'र' प्रत्ययः / / 8 / / "अम्भः" 83 इति / अमिति निम्नप्रदेश इति अम्भः, तत्प्रदातृत्वात् शुचिकारित्वाद् वा / यदि वा अमनम् अम्, निरन्तरं गमनम् / तेन भातीति अम्भः / / 83 // "अम्भोजबन्धुः" 84 इति / अम्भोजानां-कमलानां विकाशकारित्वेन बन्धुरिव बन्धुः / यद्वा अम्भोज-विद्युल्लक्षणं तेजः, तदेव बन्धुर्यस्य सजातीयत्वात् / अम्भोजानि बध्नाति-शोभयते इति वा // 84 // "अम्बुदः" 85 इति / अम्बु-पानीयं ददातीति अम्बुदः, 'नाग्नि च' इति