________________ श्रीसूर्यसहस्रनामसङ्ग्रहवयम् "अग्निः" 66 इति / अगति-ऊर्ध्वं गच्छतीति अग्निः, तत्समानधर्मत्वात् तदभिधानता / यद्वा अग्निरिवाऽग्निः, तीव्रतेजस्वितयाऽभेदोपचारः / हिमनिर्वर्तकत्वसाम्याद् वा / सूर्यकान्तादावग्निजनकत्वात् / / 66 / / "अकिञ्चनः" 67 इति / नास्ति किञ्चन अस्येति अकिञ्चनः, सर्वपापपरिग्रहपराङ्मुख इत्यर्थः / न विद्यते किञ्चन भिन्नं यस्मादिति वा सर्वव्यापकत्वात् // 67 // "अक्रोधनः" 68 इति / क्रुध्यतीति क्रोधन:, 'रुष क्रुधे' इत्यनः, पश्चान्नञ्तत्पुरुषः; रोषात्यन्ताभावाधिकरणक इत्यर्थः / / 68|| "अक्षरः" 69 इति / न क्षरतीत्यक्षर:-सर्वदा तदवस्थः / यद्वा अक्षं-चक्षु राति-ददातीति वा // 69 // "अलङ्कारः" 70 इति / अलतियते विश्वमनेनेति अलङ्कारः, सर्वेषां भूषाकृदिति तात्पर्यार्थः / जगतां स्वकिरणैर्भूषणं करोति वा // 70 // "अलकृतः" 71 इति / अलतियते स्मेति अलङ्कृतः; स्फुरत्कान्तिकलापेन विभूषितः, जगत्पर्याप्तिकर्तेति वा / 'अलं भूषण-पर्याप्ति-वारणेषु' इत्युक्तेः / / 71 / / "अमायः" 72 इति / न विद्यते माया-दम्भोऽस्येति अमायः, सर्वथा विगतकौटिल्याभिप्रायः // 72 // 'अमेयात्मा" 73 इति / इयत्तयावच्छेदकरहित आत्मा-स्वरूपमस्येति, ईदृक् इयत्तया वा दुर्जेयस्वरूप इति फलितार्थः / सर्वप्राणिभिरमेय आत्माबुद्धिर्यस्येति वा / 'आत्मा यत्नो धृतिर्बुद्धिः" इत्यमरः / / 73 / / "अमरप्रभुः" 74 इति / अमरा:-देवाः, तेषां प्रभुः-तद्रक्षाकृत् / अमराः प्रभवो येनेति वा / अमराः प्रभवन्ति यस्मादिति वा // 74 // "अमरश्रेष्ठः" 75 इति / तेषु पूर्वोक्तेषु त्रिजगत्प्रकाशकारित्वेनाऽयमेव श्रेष्ठः-प्रशस्यः // 75|| 52