________________ श्रीसूर्यसहस्रनामसङ्ग्रहवयम् "एकः" 58 इति / ‘एकोऽन्यः केवलः श्रेष्ठ:' . 'इति / एक:-श्रेष्ठः प्रशस्य: इति यावत् / / 58 // “एकाकी" 59 इति / एक:-असहायो गच्छतीति एवंशील: एकाकी, परानधीनगमनत्वात् / सृष्ट्यादिकरणे परानपेक्ष इति वा / / 59 // "एकचक्ररथः' 60 इति / एकं चक्रं यत्र तादृग् रथो यस्य स तथा / तद्रथस्यैकचक्रता सुप्रसिद्धैव // 60 // “एकनाथ:" 61 इति / 'एके मुख्या-ऽन्य-केवला:' इति / एक:-मुख्यो नाथ: एकनाथः // 6 // "ईश:" 62 इति / ईष्ट इति ईश:, समर्थः सर्वेषां सुख-दुःखप्रदानक्षमः / यदुक्तम्- 'ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा // ' इति / ई:लक्ष्मीः , तां शास्तीति-सन्मार्गे प्रवर्तयतीति वा, अप्रतिहतेच्छ इति वा / / 62 / / "ईश्वरः" 63 इति / इष्ट इति ईश्वरः / 'ईशादेवरः' इति वरप्रत्ययः / सकलशक्तिमत्त्वाद् अणिमाद्यष्टसिद्धिप्रदातृत्वाद् वा / त्रिजगज्जनतानिषेव्यमानचरणेन्दीवरत्वाद् वा / भक्तानां यथाभिलषितार्थसम्पादकत्वाद् वा // 63 / / “अक्लिष्टकर्मकृत्" 64 इति / अक्लिष्टं-शुभं कर्म-त्रिजगत्प्रकाशलक्षणं करोतीति अक्लिष्टकर्मकृत्, सर्वधातुभ्यः क्विप् / अक्लिष्टानि कर्माणि जायन्ते यस्मात् सोऽक्लिष्टकर्मा / 'वेदस्तं करोति' इति नैयायिकाः / 'तत्प्रवर्तकः' इति तु मीमांसकाः / न विद्यतेऽन्यत् क्लिष्टं कर्म यस्मादिति अर्थात् पापम्, तत् कृन्ततीति वा / अनायासेन कर्मकारीति वा / / 64 // “उग्ररूप:" 65 इति / उग्रं-भीमं रूपं यस्य स तथा, अतितेजस्वितया दुर्निरीक्ष्यरूपत्वात् / अथवा उग्रः-ईश्वरः, स एव रूपं यस्य स तथा, सृष्ट्यादिकारकत्वात् / / 65 / / 51