________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् विश्वप्रकाशवचनाद् / अचिन्त्यः आत्मा-प्रभावो यस्य स तथा / यद्वा अततीत्यात्मा मत्प्रत्ययान्तः / अचिन्त्य:-बाह्यज्ञानेनाऽनवसित आत्मास्वरूपं यस्य स तथा / तस्य निरंशत्वेन बाह्येन्द्रियाविषयत्वात् // 49 // "अचरः" 50 इति / 'चर गति-भक्षणयोः' इत्यभ्यवहाराभिलाषरहितः। यद्वा दीप्तिमान् / 'अचर: स्थावरेऽपि स्यादचरो दीप्तिमत्यपि // ' इति मेदिनिः // 50 // "अजित:" 51 इति / न जीयते स्म इत्यजितः, न केनापि भृत्यतामापादितः // 51 // "अविचिन्त्यवपुः" 52 इति / उप्यते इति वपुः, शरीरम् / अविचिन्त्यम्अनालक्षणीयं तद् यस्येति स तथा, अनेकरूपत्वात् तस्येति भावः / / 52|| "अव्ययः" 53 इति / न व्येति-विविधं विकारं न प्राप्नोतीत्यव्ययः, शत्रुमित्रयोः समचेतस्कत्वात् / न विद्यते व्ययः-नाशो यस्येति वा // 53 // "अव्यङ्गधारी " 54 इति / विरुद्धान्यङ्गानि व्यङ्गानि / न व्यङ्गानि धारयतीति स तथा / अव्यङ्गम्-अव्यभिचारि ज्ञानं धारयतीति वा / अवेरङ्गं यत्र स: अव्यङ्गः, अर्थाघज्ञस्तं धारयति पोषयतीति वा // 54 // "ऊर्जित:" 55 इति / 'ऊर्ज बल-प्राणयोः' * इति प्रकृष्टबलवान् // 55 // "अयोनिजः" 56 इति / योनि:-स्त्रीचिह्नम्, तस्माज्जातो योनिजः, पश्चान्नञ्समासः / यद्वा 'यो वेधसि यमे वाते' इत्यनेकार्थवचनात् / अ:कृष्णः, य:-ब्रह्मा, उ:-ईश्वरः, एते निजा:-स्वकीया यस्येत्यर्थः // 56 // "ऐन्धनः" 57 इति / इन्धनात् समुद्भुतो वह्निः ऐन्धनः, भवाद्यर्थेऽण् इत्यण, ऐन्धन इवैन्धनस्तद्वत् स्व-परप्रकाशकः / 'ऐकारश्च महेश्वरे' इति / ऐ-महेश्वरः, स एव धनं यस्येति वा, अनुस्वारः छान्दसत्वात् / 'इन्धी दीप्तौ' इत्यस्य धातोर्युप्रत्यये स्वार्थेऽणि ऐन्धन:-दीप्तिमानिति वा // 57 // 50