________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् तदधीनत्वात् / अब्जाकारी हस्तौ यस्येति वा // 39 // "अब्जबान्धवः" 40 इति / अब्जानां-पद्मानां बान्धव इव बान्धवः / अब्जान्येव बान्धवभूतानि यस्येति वा स तथा; तदुदया-ऽस्तमनयोस्तेषामपि तथावस्थितिदर्शनात् // 40 // "अपराजित:" 41 इति / पराजीयते स्म पराजितः / न पराजितोऽपराजितोऽभग्नः, परतेजोभिनॆवाभिभूत इत्यर्थः // 41 // .. "अप्रमेयः" 42 इति / प्रमातुं योग्यः प्रमेयः, न प्रमेयोऽप्रमेयः, इयत्तावच्छिन्नपरिमाणतया वक्तुमशक्यः, प्रत्यक्षप्रमाणागोचर इति वा / / 43 / / "अजः" 43 इति / न जायते इत्यजः, उत्पत्तिरहित इत्यर्थः // 43 // "उच्चैः" 44 इति / सान्तमव्ययमुच्चत्ववाचकम्, तेन सर्वेषामुपरि वर्तमानः। 'नीचैरल्पे महत्युच्चैः' इति हैमः // 44 // "अच्युतः" 45 इति / न च्यवते इत्यच्युतः सर्वदा वर्तमानत्वात्। षड्भावविकाररहित इति वा / ते च- १.जायते २अस्ति 3. विपरिणमते. 4. वर्धत ५.अपनीयत 6. विनश्यति चेति // 45 // .. "अजयः" 46 इति / अ:-विनतासूनुस्तेन जयतीत्यजयः, सर्वदा तदधीनगतित्वात् / न विद्यते जयो यस्येति वा, यत्प्रतियोगिको जय: कस्यापि नास्तीत्यर्थः // 46 // "अचलः" 47 इति / न चलतीत्यचल: स्वप्रतिज्ञाया इति ज्ञेयम् / परतन्त्रतया चलतीति वा / न विद्यते चलनम्-असत्ता यस्येति वा सदा सद्रूपत्वात् // 47 // "अचिन्त्यः" 48 इति / न चिन्त्योऽचिन्त्यः, 'अयमेतादृशः' इति / विश्वप्रपञ्चविलक्षणत्वेन चिन्तयितुमशक्यत्वात्, प्रमाणागोचर इति वा // 48|| “अचिन्त्यात्मा" 49 इति / 'आत्मा पुंसि प्रभावे च प्रयत्न-मनसोः / / ' इति 49