________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् संतगुणकित्तणेसु य ण हुंति पुणरुत्तदोसा उ // ' इत्युक्तेः / / 29 // "अहिंसकः" 30 इति / हिनस्तीति हिंसकः / न हिंसक:-अहिंसकः, सकलजगज्जन्तुजीवातुरित्यर्थः // 30 // "अहर्मणि:" 31 इति / अहां-दिनानां मणिरिव मणिः, तच्छोभाकारित्वात् / / 31 // "उदारकर्मा" 32 इति / उदाराणि-जगत्प्रकाशलक्षणानि ज्योतिष्टोमादीनि वा कर्माणि यस्मिन् यस्माद् वा स तथा / / 32 / / "अद्वितीय:' 33 इति / न विद्यते द्वितीयस्तेजस्वितया जगत्कर्तृतयोपमानतया वा यस्य स तथा, सजातीय-विजातीयभेदशून्य इत्यर्थः / / 33 / / "उदीच्यवेश:' 34 इति / उदीच्याम्-उत्तरस्यां दिशि, अवेश:-अप्रवेश उदया-ऽस्तमनकाले यस्य स तथा / 'उदीच्यवेषः' इति पाठे; उदीच्येपश्चिमोत्तरदेशे, वेष:-शोभाधायकं स्वरूपं यस्येति वा, उत्तरायणगतस्य तस्याधिकदीप्तिमत्त्वात् // 34 // “अपांपति:" 35 इति / अपां-जलानां पति:-स्वामी, तत्प्रवर्तकत्वात् / 'आदित्याज्जायते वृष्टिः' इति प्रसिद्धेः // 35 / / "अभयप्रदः" 36 इति / अभयं-चौरादिभ्यो रक्षणं तमोविध्वंसलक्षणं वा, प्रकर्षेण ददातीति अभयप्रदः; चौरादिजनितातङ्कविध्वंसक इत्यर्थः / अभयम्एकात्म्यं प्रददातीति वा, 'भयं द्वितीयाभिनिवेशितं स्याद्' इत्युक्तेः // 36 / / "अभिनन्दितः" 37 इति / अभि-सामस्त्येन, नन्दित:-समृद्धः सर्वदा वैभवयुक्तः / त्रिसन्ध्यं ब्राह्मणैस्तत्तत्स्तवैः स्तुतिगोचरीकृत इति वा // 37|| "अभिष्टुत:" 38 इति / अभि-सामस्त्येन, स्तूयत इति अभिष्टुतः; सर्वकालं प्रेक्षावद्भिर्बह्मादिभिर्वा स्तुतिविषयीकृत इत्यर्थः // 38 // ."अब्जहस्तः". 39 इति / अब्जं-कमलं हस्ते यस्य स तथा, तद्विकाशस्य ____48