________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् पतिः / / ' इति श्रुतेः / / 23 / / "अहस्पति:" 24 इति / अहते-गच्छतीति अहः, दिनम् / तस्य पति:, तस्य तदधीनत्वात् // 24 // “अहिमान्" 25 इति / अहय:-सरीसृपाः, रथे रश्मिभूता विद्यन्ते यस्य स तथा / अः-कृष्णः, तस्य हि:-ज्ञानं विद्यते यस्य स तथा / अस्त्यर्थे मतुम् / 'हिर्हेतौ पदपूर्ती च विशेषे-ऽप्यवधारणे // ' मेदिनिकोश इत्युक्तेः / अस्य कृष्णस्य हि:-विशेषो विद्यते यस्मादिति वा // 25 // “अहिमांशुभृत्" 26 इति / अहिमा:-उष्णाः किरणाः, अंशवः / तान् बिभर्तीति अहिमांशुभृत् / सर्वधातुभ्य: क्विप् / अ-विष्णु:, हिमांशु:-चन्द्रः, तौ बिभर्ति-पोषयतीति वा / 'अ: कृष्ण आः स्वयम्भूरिः काम ई: श्रीरुरीश्वरः // ' इत्येकाक्षरः // 26 // “अहिमकरः" 27 इति / कार्यन्ते इति कराः / न विद्यते हिम:-शैत्यं येषु ते अहिमाः / एवंविधाः करा यस्य यस्मिन् वा स तथा / तदन्य-तद्विरुद्धतदभावेषु नञ् वर्तत इति। हिमकर:-चन्द्रः, तद्विरोधी तद्दीप्तिहारकत्वाद् वा। अहिमं-शैत्यरहितम्, अर्थाजगत् करोतीति वा // 27 // “अहिमरुक्' 28 इति / हिम-तुहिनम्, तज्जनिता या रुक्-पीडा, सा न विद्यते यस्मात् स तथा / अहिमा-हिमनाशिका रुग्-दीप्तिर्यस्येति वा // 28 // “अहिमरुचि:" 29 इति / न विद्यते हिमं येषु ते अहिमा:-उदयाचलप्रभृतयो नगाः, तेषु रुचिर्यस्य स तथा / अहिमानाम्-उष्णवस्तूनां रुचि:-अभिलाषो यस्मिन्निति वा / 'रुचिरभिष्वङ्गा-ऽभिलाषयोः // ' इति मेदिनिः / चतुर्णाम् नाम्नाम् एषामभिन्नार्थकानामपि कथञ्चिद्भेद उपपादितः, वस्तुतस्तु न भेदः, न चात्र पौनरुक्त्यम् 'सज्झाय-ज्झाण-तव-ओसहेसु उवएस-थुइपहाणेसु। .