________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् “आतप:" 16 इति / आतपतीत्यातपः, सर्वदा तपनस्वभावत्वात् // 16 / / "आतपी" 17 इति / आतप:-प्रकाशः, सोऽस्यास्तीति इन्प्रत्ययान्तः; स्व-पस्प्रकाशवान् इत्यर्थः // 17 // “आत्मा" 18 इति / अतति-सततं गच्छतीति आत्मा इति निरुक्त्या, मुख्यवृत्त्याऽस्यैव तत्प्रसङ्गः, गौणवृत्त्याऽन्येषामपि // 18 // "आत्रेयः" 19 इति / अत्रि:-मुनिः, तस्यापत्यमात्रेय:-चन्द्रः / तदंशप्रवेशेनैव तस्योदयसम्भवात् तन्नामता / आत्रेय:-करुणान्वित इति वा / 'आत्रेयी पुष्पवत्यां स्यादात्रेय: करुणान्वितः।' इति मेदिनिः // 19 // "असहः" 20 इति / न सहः असहः; अन्येषां महसामभिभावकः // 20 // "असङ्गगामी" 21 इति / सङ्गः-संयोगः, तदंनधीनत्वेन गन्तुशीलमस्येति सः। असङ्गान्-नि:परिग्रहान् गच्छति-प्राप्नोतीति वा, तद्धयेतॄणां निर्ग्रन्थानां प्रत्यक्षरूप इत्यर्थः // 21 // "असुरान्तकः" 22 इति / सुष्टु राजन्ते इति सुराः / न सुरा असुराः, दैत्याः / तेषामन्तं-नाशं करोतीति असुरान्तकः, तद्विनाशकारीत्यर्थः / असव:-प्राणाः, तैः राजन्ते / इत्यसुराः, . प्राणिनः / तेषामनुगतावित्यस्मानिष्पन्नोऽन्तशब्दो निश्चयवाची / तेन अन्तेन-निश्चयेन, कं-सुखं यस्मात् स तथा / 'कं शिरो जलमाख्यातं कं सुखे परिकीर्तितम् / / ' इत्यजयः / यद्वा- 'असुरा रजनीवाम्योः' इति मेदिनीकारोक्तेः / तस्या अन्तक:-नाशकः / अ:-कृष्णः, सुरा:-देवाः, अन्तक:-यमः, तेषां क:आत्मा वा / 'को ब्रह्मा-ऽऽत्म-प्रकाशा-ऽर्क-केकि-वायु-यमा-ऽग्निषु / ' इत्यमरचन्द्रः / असुरा:-रौद्राकारधारिणो म्लेच्छविशेषाः, तेषामन्तं करोतीति वा // 22 // "उम्रपति:" 23 इति / उम्रा:-किरणाः, तेषां पति:-प्रभुः, 'सर्वेषां तेजसां . . . 46