________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "संसारगतिविच्छेत्ता" 202 इति / संसारे गति:-गमनम्, तां विच्छिनत्तीति सः // 202 // “संसारतारकः" 203 इति / संसारं-चतुर्गतिलक्षणं तारयतीति संसारतारकः / सम्यक्प्रकारेण सारं वस्तु ऋच्छति-प्राप्नोतीति वा / 'ऋ गतौ' वुण्प्रत्यये रूपम् // 203 / / "संहर्ता" 204 इति / संहरति प्रलयकालावस्थायां सर्वमिति संहर्ता // 20 // “सम्पूरः" 205 इति / 'पृपालन-पूरगयोः' इति / सम्यक्प्रकारेण पूरयति, समीहितार्थं पालयतीति वा सः / / 20 / / “सम्पन्नः' 206 इति / सम्पद्यत इति सम्पन्नः ऐश्वर्यादिगुणैर्युक्तत्वात् / सम्पदं नयति-प्रापयतीति वा // 206 // “सम्प्रकाशकः" 207 इति / सम्प्रकाश्यते लोकोऽनेनेति स:, ज्ञानरूपतयाऽखिलवस्तुप्रकाशकत्वात् / / 207 // , "सम्प्रतापनः" 208 इति / सम्प्रतापयतीति सः, शीतलस्योष्णतां जनयतीत्यर्थः // 208 // “सञ्चारी" 209 इति / सञ्चरणं-सञ्चारः, शरीरव्यापारविशेषः / सोऽस्यास्तीति सञ्चारी / / 209 // “सञ्जीवनः" 210 इति / सम्यक्प्रकारेण जीव्यते लोकोऽनेनेति सञ्जीवनः / सं-सम्यग् जीवनं-पानीयं यस्मादिति वा / 'आदित्याज्जायते वृष्टिः / / ' इति पुराणोक्तेः // ‘पयः कीलालममृतं जीवनं भुवनं वनम् // ' इत्यमरः // 210 // “संयम:" 211 इति / सं-सम्यक् यम:-नित्यकर्मनियमो येनेति स:, नित्यकर्मप्रवृत्तेस्तदधीनत्वात् / 'शरीरसाधनापेक्षं नित्यं यत् कर्म तद् यम:' इत्यमरः // 21 //