________________ श्रीसूर्यसहस्रनामसङ्ग्रहवयम् सर्वजन्तुसाधारणं नास्याभिधानमिति चेत्; न / अत्र सावधारणत्वेन व्याख्यानात्, सर्वदा आयुष्मानेवेत्यर्थः / आयु:-तद्गतिस्तद्वान् वा // 7 // "आकार:"८ इति / आ-समन्तात् क्रियत इत्याकारः, आकृतिविशेषः / तदालोकसहकृतेनैवेन्द्रियेण सर्वासामाकृतीनां गृह्यमाणत्वेन तदुपकारकत्वात् तन्नामता / आ-जगन्मर्यादीकृत्य कारः-कृत्यं प्रकाशलक्षणं यस्येति वा आकारः / आकृतिमान् मण्डलाकृतिमत्त्वेन प्रतीयमानत्वाद् वा / आसमन्ताद् लोकान् करोतीति आकारः इति वा // 8 // "आकाश:" 9 इति / आकाशते सूर्यादयोऽस्मिन्निति आकाशम्, पुंक्लीबलिङ्गः; आश्रया-ऽऽश्रयिणोः कथञ्चिदभेदोपचारादत्र लक्षणया शब्दप्रवृत्तिः / आ-समन्तात् काशते-प्रकाशते इत्याकाश: / यदि वा आकाशवद् व्यापकत्वाद् आकाश: / आ-समन्तात् काशो-ब्रह्म; 'काशो ब्रह्म' इति पुराणादिति वा / अकं-दुःखम्, तस्य समूहः आकम्, तं श्यतीति आकाशो वा / 'अकं दुःखे च पापे च' इति विश्वः / यद्वा आ-समन्तात् काश:-शब्दविशेषो यस्मादिति आकाशः / आ:-मन्मथः, तस्य काश:कुत्सनं यस्मादिति वा, तंदुदये मदनोद्रेकनिवृत्तित्वात्। 'आ विधातरि मन्मथे' इति मेदिनिः // 9 // .. “आलोककृत्' 10 इति / आलोक्यते जनोऽनेनेति आलोकः, प्रकाशः / तं करोतीति क्विप्प्रत्ययान्तः / सृष्टिकर्तीपेक्षया तु आ-समन्ताद् लोकः-संसारः, तत्कारकः इत्यर्थः / आ-समन्तात् स्वदीप्त्या लोकं कृणतीति सः। आ-ब्रह्मा, तस्य लोकः-उत्पत्तिर्यस्माद्वा। अ:-कृष्णः, तस्य आलोक:-अलक्ष इति वा। आलोक्यते इत्यालोकश्चक्षुः, तं करोतीति वा; तदधिष्ठातृदेवत्वात् // 10 // "आमुक्तः” 11 . इति / आ-समन्ताद् मुक्तः आमुक्तः, तत्तत्पदार्थसम्बन्धवत्त्वेऽपि अनुपाधिकस्वरूपः / सर्वत्रानुपहतगतित्वेन .. 44