________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् . आपः क्विप् ह्रस्वाच्चेति साधु: / कारणे कार्योपचाराद् गौर्वाहीक इव तस्मिन्नारोप इत्यर्थः; सर्वेषां सुखोपलब्धेश्च / यद्वा आ-समन्ताद् आप्नोतिव्याप्नोतीति आपः, सर्वव्यापक इत्यर्थः / आ-समन्ताद्भावेन पातीति वा आपः; यद्वा आप:-जलानीति / 'आदित्याज्जायते वृष्टिः / / ' इति स्मृतेः / ततो जलनामता // 4 // “आचारतत्परः" 5 इति, / आचर्यते इत्याचारः, उदया-ऽस्तमनलक्षण: सर्वप्रकाशलक्षणो वा तिमिरापनोदलक्षणो वा श्रुति-स्मृतिलक्षणो वा / तत्र तत्परः-सावधानः, तत्कारित्वात् तत्प्रतिपादकत्वाच्च / यद्वा आचारेषुवर्णकृत्येषु तत्पराः सर्वे, यस्मात् तदुदयाधीनत्वात् सर्वधर्मप्रवृत्तेः / अथवा आ-समन्तात् चरणम्-इतस्तत: परिभ्रमणं ज्योतिश्चक्रस्य, तत्र तत्परःतत्प्रयोजकः तदधीशत्वादिति / 'यद्वा एकमूर्तिस्त्रयो देवाः / ' इति प्रसिद्धेः / तेषां आचार:-सृष्ट्यादिलक्षणः, तत्र तत्परः-प्रयत्नवान्; ज्योतिर्विदां मते 'अयमेव सष्ट्यादिकृद्' इत्यङ्गीकाराद् इति / यद्वा आ-समन्तात् चार:वियत्परिभ्रमणम्, तत्र तत्परः सर्वदा तत्कारित्वात् / यदि वा 'चर गतिभक्षणयोः' .. इति आचरणम्-आचारः, अभ्यवहारः / तत्र तत्पराः सर्वे; यस्मात् केषाञ्चिन्मते रात्रौ भोजनस्य निषिद्धत्वात् / / 5 / / “आयुः" 6 इति / तदुपास्तिकारिणां सर्वापायापगमकारित्वेन तत्पोषकत्वात् कारणे कार्योपचारः। 'अनन्तगुणमुत्स्रष्टुमादत्ते हि रसं रविः।' रघुवंशे श्लोक: इति प्रसिद्धेः / सकलवृष्टिहेतुत्वेन परम्परया तत्कारणजनकत्वेन वा / यद्वा सर्वेषामाहारादिपरिणामहेतुत्वेन आयु:सम्पादकत्वात् / यद्वा आयुर्घटकसंवत्सरादिप्रवृत्तिजनकत्वेन तद्रूपत्वात् / यद्वा सर्वोत्पत्तिहेतुत्वेन तस्याऽपि तदन्त:पातित्वात् कार्योपचारः / / 6 / / “आयुष्मान्" 7 इति / आयुर्विद्यते यस्य स तथा, मतुप्प्रत्ययान्तः / ननु 43