________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् व्यवहार-द्युति-स्तुति-गतिषु पर्यवसानात् / प्रथमविजिगीषुः-स्वयं परान् समुत्पाट्य विजेतुमिच्छुरित्यर्थः / प्रथमव्यवहारसृष्टेरभावात् प्रथमतयाऽयमेव व्यवहरणयोग्यः / प्रथमद्युति:-अन्यासां दीधितीनामनुत्पन्नत्वेन प्रथम द्युतिरूपतयाऽयमेवाऽवभासत इत्यर्थः / प्रथमस्तुति:-स्तुतिकर्तृणां स्वयंमुत्पादकत्वेन स्वयं स्तुतिरूप इति / प्रथमगतिः-गमनक्रियायाः असाधारणकारणत्वेन, कारणे कार्योपचारात् स्वयं गतिरूप इत्यर्थः / आदिशब्दस्य समीपार्थवाचकत्वेन 'आदौ-समीपे दीव्यतीति आदिदेवः, अधिकारात् परब्रह्मणः इत्यर्थः / अथवा आदि:-मूलकारणं देव इति पूर्वार्थः / अथवा सृष्ट्यपेक्षया आदौ-युगादौ देव:-कमनीय इत्यर्थः / आदिः; अ:कृष्णः, तस्याऽऽदि:-कश्चित् सकलपदार्थसापेक्षाकारी भगवान् / स चासौ देवश्चेति कर्मधारयः, निरञ्जन: इत्यर्थः / अ:-कृष्णः, आः-स्वयम्भूः, इ:कामः, ई-श्री:, उ:-ईश्वरः इत्येकाक्षरः / अ:-कृष्णः, तस्यादिदेव:प्रथमस्तुतिविषयविषयिणोरभेदोपचारात् प्रथमस्तुत्य इत्यर्थः / केवलकृष्णोपास्तिकारिणां मते- अ:-कृष्णः, तस्य आदि:-अवयवभूतः, स चासौ देवश्चेति कर्मधारयः; कृष्णावयवैर्निष्पन्न इत्यर्थः / केवलसूर्योपास्तिकारिणां मते आदय:-कृष्णप्रकारा देवाः, तेषां देव:-ध्येय इत्यर्थः / अत्र आदिशब्दः प्रकारार्थः / यदुक्तम् सामीप्ये च व्यवस्थायां प्रकारेऽवयवे तथा / चतुर्वर्थेषु मेधावी आदिशब्दं तु योजयेत् / / अथवा अ:-विष्णु:, स आदौ येषाम् / ते सत्त्व-रजस्तम:प्रधाना विष्णुब्रह्म-शिवाः, तैर्दीव्यते-स्तूयत इत्यर्थः / अथवा आदिषु- आदि-मध्याऽवसानेषु दीप्त्या स्वज्योतिषा दीव्यति इति / अत्र आदिशब्देन मध्याऽन्तयोरपि ग्रहणम्, प्रथमयोरित्यत्र द्वितीयाया इव तदुक्तम्