________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् दधिकशतसङ्घसकानि, प-भयोश्चान्तर्भावः / जकारादीनि अष्टपञ्चाशत्प्रमितानि, अत्र च-ययोरन्त:पातित्वम् / वकारादीन्यष्टाविंशत्यधिकशतसङ्ख्याकानि। ककारादीनि सप्तदशाधिक-शतसङ्ख्याकानि, ख-ग-घ-क्षाणामप्यन्तर्भावः / लादीन्येकादश / मादीन्यष्टषष्टिः / नादीनि त्रयस्त्रिंशत् / रादीनि चतुर्विंशतिः / शादीनि द्विचत्वारिंशत् / तादीनि द्वात्रिंशत् / सर्वाण्यप्येकीकृतानि चतुश्चत्वारिंशदधिकसहस्रसद्ध्याकानि भवन्ति / तानि सर्वाण्यपि पादसाहश्रीअकब्बरजल्लालदीनभूशक्रेण पुत्र-प्रपौत्रादिसहितेन महोपाध्यायश्रीभानुचन्द्रगणिपाधैं पठितानीति ग्रन्थाद्यसङ्गतिरिति कृतं पल्लवेन तत्र शब्दास्त्रिविधा:- रूढा यौगिका मिश्राश्च / तत्र प्रकृतिप्रत्ययविभागेनान्वर्थवर्जिता 'आखण्डला'ऽऽदयो रूढाः / यौगिकास्तु त्रिविधा:-गुणतः क्रियात: सम्बन्धतश्च / तत्र गुणो नील-पीतादिः / क्रिया करोतीत्यादिका / सम्बन्ध: स्वस्वामित्वादिः / तेषां च पुन: नीलकण्ठ-स्रष्टभूपतिप्रभृतीन्युदाहरणानि यथासङ्घयं ज्ञेयानि / मिश्राः पुन: योगपुरस्कारेण / रूढिमन्त: शम्भु-पङ्कजप्रभृतयः; इति पर्याप्तं विस्तरेण। अथ चतुश्चत्वारिंशदधिकसहस्रनाम्नां. भगवतः स्तुतिरूपत्वेऽपि शिष्टाचारप्रतिपालनाय . निर्विघ्नग्रन्थसमाप्तिकृते च सर्वजनप्रसिद्धमङ्गलद्योतकपदमादावुपदर्शयन्नाह"आदिदेव:"१ इति / 'दीव्यति' क्रीडति परमानन्दपदे इति देवः, आदिश्वासौ देवश्चेति कर्मधारयः / अत्र आदिशब्दः पूर्ववाची, सृष्टिकार्यापेक्षया पूर्ववृत्तित्वेन सर्वेषां कारणभूतः / देवानाम् आदिरिति तत्पुरुषो वा; अग्न्यादित्वाद् आदिशब्दस्य पूर्वनिपातः / चतुर्मुखप्रभृतीनां प्रथमतया देवत्वेनाऽऽख्यानीय इत्यर्थः / दिव्धातोः क्रीडा-विजिगीषा 40