________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् पश्यन्तीष्टजनं चिराय जयतादित्याशिषं सा ददौ // 6 // आसीदासागरान्तप्रथितपृथुयशाः सूरचन्द्रस्य शिष्योपाध्यायश्रेणिमुख्यः कृतसुकृतततिर्भानुचन्द्रो मुनीन्द्रः / यज्जिह्वां वागकार्षीनिजनटनकृते रङ्गभूमिं हि यस्य, शिष्याः सुत्राममन्त्रिप्रतितुलितधियो भूतलं भासयन्ति // 7 // . यदुपदेशवशेन मुदं दधनिखिलमण्डलवासिजने निजे। . मृतधनं च करं च सं 'जीजीआ'ऽभिधमकब्बरभूपतिरत्यजत् // 8 // , प्रतिबोध्याऽकबरनृपं महानुभावेन येन विहितानि / शत्रुञ्जयकरमुक्तिप्रमुखाणि सुकृतकृत्यानि / / 9 / / नाम्नां दिनमणेस्तेन व्याख्यामोग: कृतोऽस्ति यः। स एव सिद्धिचन्द्रेण विचार्य लिख्यते पुनः // 10 // तत्र पूर्व श्रीअकब्बरजल्लालदीनसुरत्राणेन प्रतिदिनजापार्थं श्रीसूर्यस्य समन्त्राण्यष्टोत्तरशतनामानि महोपाध्यायश्रीभानुचन्द्रगणिपार्श्वे स्वयं स्मृतिगोचरीकृतानि / तदनु श्रीसूर्यसहस्रनामपिपठिषायामुपाध्यायश्रीभानुचन्द्रगणिभिर्भविष्यत्पुराणोक्तसहस्रनामानि प्राभृतीकृतानि / तत: श्रीशाहयः सौवमन्त्रिमुख्यं शेखश्रीअबुलफजलमाहूयेत्याज्ञापयाञ्चक्रुः– यदस्माकं मते अस-ह-दवर्णानां मुख्यत्वम्। ततस्तदादीनि नामानि यथाक्रमं युष्माभिर्व्यवस्थापनीयानि / तदनन्तरं अ-ब-य-दप्रतिपादितवर्णानुपूर्वीक्रमेणैवतान्यन्यान्यपि च / श्रीशेखैस्तथा विहितानि। तत्र अकारादीन्यष्टादशाधिकशतसङ्ख्याकानि, ईकारौकारान्तानामत्रैषान्त:पातित्वम् / सकारादीन्येकसप्तत्यधिकशतप्रमितानि / हकारादीन्येकोनविंशति: / दकारादीनि द्विसप्ततिः, य-धयोरप्यन्तर्भावः / बकारादीनि षट्चत्वारिंश 39