________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् . // महोपाध्यायश्रीभानुचन्द्रगणिगुरुभ्यो नमः / / महोपाध्यायश्रीसिद्धिचन्द्रगणिशोधिता, महोपाध्यायश्रीभानुचन्द्रगणिविरचिता चतुश्चत्वारिंशदधिकश्रीसूर्यसहस्रनामटीका वन्दारुवासवोत्तंस_सिमन्दारदामभिः / . त्रिसन्ध्यरचिताभ्यर्चा, वीरपादद्वयीं नुमः // 1 // सद्वर्णा विबुधस्तुत्या, सालङ्कारा लसत्पदा। द्वेधाऽपि जायतां देवी प्रसन्ना मे सरस्वती / / 2 / / न स्तुमः सुजनं नैव, निन्दामो दुर्जनं जनम् / नैवमेव स्वरूपं तौ सुधा-क्ष्वेडाविवोज्झत: // 3 // अथाऽकबरशाहिवर्णनम्- . यद्दोर्दण्डबलातिरेकजनिताऽऽतकादिव श्रीपतिः, शेते वारिणि वारिधे: सुरपतिर्मेघालये तस्थिवान् / स्वीचक्रे स्फटिकाद्रिकूटमतुलं मीनध्वजध्वंसकृत्, सोऽयं शाहिअकब्बरक्षितिपति याच्चिरं भूतले / / 4 / / धौरेया धुरमावहन्ति सततं मत्सूनवो दुःसहाम्, मत्पुत्र्यो ददते पयः प्रतिदिनं पीयूषकल्पं पुनः / जाननेव जनस्तथापि रसनालुब्धो निहन्तीति तास्- त्राताः सम्प्रति शाहिना सुरभयो यस्मै ददत्याशिषः // 5 // दीना मीनवधूर्वियोगविधुरा कैवर्तकोटि तटे, दृष्ट्वा शोकमुपेयुषी जनमुखादाकर्ण्य तूर्णं वचः / श्रीमच्छाहिजलालदीननृपतिर्जीवाऽभयं दत्तवान्, 38