________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् दिवामित्रमहर्बन्धुरहर्मित्रमशीतगुः // 11 // खरपादः खरज्योति:, खरभानुः खरप्रभः। खररोचि: खरपृश्निः, खरधामा खरच्छविः // 12 // खरदीप्ति: खराभीशुः, खरोस्रः खरदीधितिः। खरकेतुः खरकान्ति:, खरभा भास्करः कपिः // 13 // ॥इति सूर्यसहस्रनामसङ्ग्रहे प्रथमः प्रकाशः॥ .. आदित्यो दीप्तिमानर्कः, पपी: पीय: सदागतिः।। विभावानुस्रवान् ब्रनः, पादवानहिमद्युतिः // 1 // रोचिष्मान् रूचिमान् पूषा, शोचिष्मानुष्णदीधितिः / / ज्योतिष्मान् शुचिमान् गोमानर्चिष्मानहिमच्छविः / / 2 / / केतुमान् घृणिमान् धर्ममरीचिर्वासरेश्वरः। मरीचिमानुष्णभानुः, प्रग्रहवानभीशुमान् // 3 // रश्मिमान् पृश्निमानुष्णकान्तिर्वासरनायकः / दीधितिमानशीतत्विड्, द्युतिमानहिमत्विषिः // 4 // छविमांस्त्विषिमान् भावान्, प्रभावान् भानुकेसरः। वासराड् वसुमान् गोराड्, गभस्तिमान् मयूखवान् / / 5 / / तीव्रभानुरुष्णदीप्तिरुष्णोपधृतिरुष्णरुक् / उष्णरोचिरुष्णशोचिरुष्णपृश्निः सहस्रभः / / 6 / / शीतेतरांशुरुष्णधुदुष्णकेतु-र्युकेतनः / उष्णच्छविरुष्णधामा, धर्मधामा विभावसुः / / 7 / / भानेमिः कर्णब्रह्मा, धर्मदीधितिरुष्णभः / धर्मरोचिर्घर्मशोचिरहस्करो-ऽम्बुतस्करः // 8 // धर्मोस्रो धर्मकिरणो, धर्मकेतुर्दिवाकरः। 150