________________ श्रीसूर्यसहस्रनामसङ्कहत्रयम् - ॥ऐं नमः॥ सिद्धार्थजातो भगवान् ,जगच्चक्षुः श्रियेऽस्तु वः / पन्थाः प्रकाश्यते दीप्रैर्य गवां निवहैः शिवः // 1 // कलयामासुरुल्लासं, यतः सुमनसां व्रजाः। स समस्तं तमःस्तोमं, हन्तु मित्रोदयः सदा / / 2 / / भास्वान् रविरिन: सूर्यः, सूरः शूरः शुचिः खगः / हेलिहँसो हरिर्भानुश्चित्रभानुरहर्पतिः / / 3 / / तपनस्तरणिस्त्वष्टा, तापन: सविताऽर्यमा। अरुण: किरणसिग्मकिरण: कान्तिमान् भगः // 4 // दिवसेशो दिनाधीशो, दिवामणिरहर्मणिः / दिननाथो दिनस्वामी, दिनेशिता दिनेश्वरः / / 5 / / दिनरत्नं दिवारत्नमभ्ररत्नं नभोमणिः / व्योमरत्नं नभोरत्नं, घस्ररत्नं वियन्मणिः // 6 // विहायोरेनष्णांशुर्विहायोमणिरुष्णभाः। महाधैर्यो महाखेशो, गभस्तिर्गगनध्वजः // 7 // वियत्केतुर्नभ:केतुरंशुमानंशुरंशुराट् / खररश्मिरशीतांशुरशीतार्चिविरोचनः // 8 // तमोरिपुस्तमोध्वंसी, तमःशत्रुस्तमोऽसुहृत् / मित्र-मााण्डि-मार्तण्ड-तमोराति-तमोऽहिताः // 9 // . भानुमाली महोमाली, रश्मिमाली खरद्युतिः / खरार्चिः खररुग् धर्मरश्मिः सहस्रदीधितिः // 10 // दिनबन्धुर्दिवाबन्धुर्दिनमित्रं दिवासुहृत् / 149