________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् पति:-तत्प्रवर्तयितेत्यर्थः / / 995|| "श्रेयस्करः" 996 इति / अनपायसुखावाप्ति श्रेयः करोतीति सः // 996|| "श्रीकण्ठः" 997 इति / दैत्यानां श्रियं कण्ठयतीति तथा / 'कठि-मठि शोषणे' इत्यस्य रूपम् / कण्ठलग्नलक्ष्मीक इति वा / / 997 // "श्रीमान्" 998 इति / नानाविधाः श्रियो विद्यन्ते यस्य स तथा / / 998 // "श्रीमतांवरः" 999 इति / ऋग्-यजुः-सामलक्षणा श्रीविद्यते येषां ते विरञ्च्यादयः, तेषां मध्ये वर:-प्रधानः / / 999 / / "श्रीनिवास:" 1000 इति / श्रियां निवास:-वसतिर्यस्मात् सः // 1000 // / इति पादसाहश्रीअकब्बरजल्लालदीनसूर्यसहस्रनामाध्यापकश्रीशत्रुञ्जयतीर्थकरमोचनाद्यनेकसुकृतविधापकमहोपाध्यायश्रीभानुचन्द्रगणिविरचितायां तच्छिष्याष्टोत्तरशतावधानसाधनप्रमुदितपादशाहश्रीअकब्बरप्रदत्तखुस्फहमा'sपराभिधान-महोपाध्यायश्रीसिद्धिचन्द्रगणिशोधितायां नवाबशेखश्रीअबुलफजलकारितायां चतुश्चत्वारिंशदधिकश्रीसूर्यसहस्रनामटीकायां दशमशतविवरणं समाप्तम् // पूर्वप्रतिपादिताष्टोत्तरशतनामभ्यश्चतुःषष्टिनामान्यत्रैवान्तर्गतानि, चतुश्चत्वारिंशदवशिष्टानि / तानि च श्रीशाहेरादेशाद् नवाबशेखश्रीअबुलफजलाभिधानैः सहस्रनाम्नामुपरि व्यवस्थापितानि / प्रसङ्गतस्तानि व्याख्यायन्ते "श्रीनिकेतनः" 1001 इति / श्रियां-सम्पदां निकेतनं-गृहम्, अर्थात् भक्तो जायते यस्मात् स तथा // 1001 // "श्रेष्ठः" 1002 इति / अतिशयेन प्रशस्य:-श्रेष्ठः, सर्वोत्तम इत्यर्थः॥१००२।। "शरण्यः" 1003 इति / संसारसागरादुत्तितीषूणां भयनाशकत्वात् 143