________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "शीघ्रगः" 981 इति / शीघ्रं-त्वरितं गच्छतीति स तथा // 981 // "शीघ्रगति:" 982 इति / शीघ्रं गति:-गमनं यस्य स तथा, मङ्गलादिभ्यस्त्वरितगतिमत्त्वात् / / 982 // "शीर्णः" 983 इति / शीर्यते तमोऽनेनेति स तथा / / 983 / / “शेष:" 984 इति / प्रलयानन्तरमेक एक शिष्यत इति शेषः // 984 // "शुक्रः" 985 इति / शुक्र:-अग्निः, तत्स्वरूप इत्यर्थः / 'शुक्रः स्याद् भार्गवे ज्येष्ठमासे वैश्वानरे पुमान् // ' इति मेदिनिकारः // 985 / / "शुक्राङ्गः" 986 इति / शुक्र-वीर्यं अङ्गम्-अवयवं यस्य स तथा / शुक्रमों यस्मादिति वा / / 986 / / "शुक्ररूपः" 987 इति / शुक्र-वीर्यं रूपयति-प्रेरयतीति सः, सूर्यनाडीद्वारात् तत्प्रवेशात् / / 987 // . “शक्तिमान्' 988 इति / शक्तिः-सामर्थ्यम्, तद्वान् / कर्तुमकर्तुमन्यथाकर्तुं समर्थ इत्यर्थः // 988 // "शक्तिमतांश्रेष्ठः" 989 इति / शक्ति:-पराक्रमः, तद्वतां श्रेष्ठःअग्रणीरित्यर्थः // 989 // "शनैश्वरः" 990 इति / शनै:-शीघ्राभावेन चरति-गच्छतीति स तथा / चन्द्रापेक्षया अल्पगतित्वात्, कारणे कार्योपचार इति वा / / 990 // "शनैश्वरपिता" 991 इति / शनैश्चर:-शौरिः, तज्जनकत्वात् सः // 991 // "शम्भुः" 992 इति / शं-सुखं भवत्यस्माद् भक्तानामिति सः / / 992 / / "शर्वः" 993 इति / शुणोति-हिनस्ति पापमिति शर्वः / / 993 / / "श्रीधरः" 994 इंति / श्रियं-शोभां धरतीति सः / / 994 // "श्रीपतिः" 995 इति / श्री:-परा शक्तिः, प्रकृतिरिति यावत् / तस्याः 142