________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् 10 . “रथिनांवरः" 965 इति / परमपदप्रापकतया रथ:-ज्ञानम्, तद्वतां वरःप्रधानः // 965 // "शाश्वत:" 966 इति / शश्वद्-निरन्तरं भवतीति स तथा / / 965 / / "शान्तप्रियः" 967 इति / शान्ताः-योगिनः, तेषां प्रियः, तद्ध्येयत्वात् / शान्ता-विरक्ताः प्रिया यस्येति वा // 967 // "साष्टाक्षरः" 968 इति / अष्टाक्षरेण-अष्टाक्षरात्मकमन्त्रेण सह वर्तते यः स तथा / / 968 // "शुद्धः" 969 इति / शुद्ध्यतीति शुद्धः, अविद्यानास्कन्दितत्वेन सच्चिदानन्दरूपत्वात् / / 969 / / "शुभः" 970 इति / शुभ:-सर्वकार्येषु मङ्गलभूतः / / 970 // "शुभाचारः" 971 इति / शुभ:-शोभन: आचारो यस्मात् स तथा, तत एवाचारप्रवृत्तेः // 971|| "शुभप्रदः" 972 इति / शुभम्-अभ्युदयं प्रकर्षेण ददातीति स तथा // 972 / / "शुभकर्मा" 973 इति / शुभं-लोकोत्तरचमत्कारकारि कर्म यस्य स तथा // 973 / / "शब्दकरः" 974 इति / शब्द-वेदोच्चारलक्षणं करोति स तथा / शब्दंकीर्ति करोतीति वा / 'शब्द: कीर्ती ध्वनावपि // ' इति मेदिनिः / / 974 / / "शुभ्रः" 975 इति / शुभ्रगुणयोगात् सः, विशदमूर्तिरित्यर्थः // 975 / / "शुचिः" 976 इति / शुचिः-निर्लेपो मलादिकालुष्यरहित इति यावत् // 976 / / "शिवः" 977 इति / शेते जगदस्मिन्निति शिव:, मङ्गलहेतुत्वाद् वा / / 977|| "शोभा' 978 इति / शोभा-कान्तिः, तद्धेतुत्वात् तन्नामता // 978|| "शोभन:" 979 इति / जगत् शोभयतीति शोभनः / / 979 // "शूरः" 980 इति / शूरः-विक्रान्त:, सत्त्वगुणोपेतत्वात् / / 980 // 141