________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् केशा:-रश्मयो यस्येति वा / तथा चोक्तम् 'सूर्याचन्द्रमसोः शस्वदंशुभिः केशसंज्ञितैः / बोधयन् स्थापयंश्चैव जगदुत्तिष्ठते पृथक् / / बोधनात् स्थापनाच्चैव जगतो हर्षणं भवेत् / अग्नीषोमकृतैरेवं कर्मभिः पाण्डुनन्दनः / / हृषीकेशोऽहमीशानो वरदो लोकभावनः // ' इति // 955 / / "रक्षोघ्नः'' 956 इति / रक्षसो जातुघानान् हन्तीति स तया, यज्ञलोपकारिराक्षसनाशक इत्यर्थः / / 956 / / "रक्ताङ्गः" 957 इति / रक्तं-रक्तवर्णम्, अङ्गम्-मण्डलमधिष्ठानं यस्य स तथा, उदया-ऽस्तमनयोस्तथा दर्शनात् // 957|| "रश्मिमाली" 958 इति / पञ्च भूतानि, षट् ज्ञानेन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, एतानि जगदुत्पत्तौ रश्मिभूतानि, तेषां माला-परम्परा, साऽस्यास्तीति तथा // 958|| "ऋतुः" 959 इति / इयर्तीति ऋतुः, तत्प्रवर्तकत्वात् / / 959 / "रथाधीशः" 960 इति / रथा:-अवयवाः, तेषामीशः, प्राणिनामवयवनिर्मातेत्यर्थः / रथोऽप्यवयवे पुमान् // ' इति मेदिनिः / / 960 // "रथाध्यक्षः" 961 इति / शरीरमेव रथः, तत्राध्यक्षः-प्रभुः, सर्वप्राणिनां शरीराधिष्ठातेत्यर्थः / “रथ: स्यात् स्यन्दने काये वरणे वेतसेऽपि च // " इति विश्वः // 961|| “रथारूढः:" 962 इति / रथे-स्यन्दने आरूढः रथारूढः // 962 // "रथपति:" 963 इति / रथा:-महारथाः कर्णप्रभृतयः, तेषां पति:-पाता // 963 // "रंथी" 964 इति / रथोऽस्यास्तीति स्पष्टम् / / 964|| _140