________________ श्रीसूर्यसहस्रनामसङ्ग्रहवयम् “राज्ञीप्रियः" 943 इति / राज्ञी-चन्द्रस्य स्त्री, तस्याः प्रिय:-इष्टः; स्वपत्युः पुष्टिकारित्वात् / राज्ञी-औषधी, सा प्रिया यस्येति वा / 'आदित्यदिने राज्ञीपत्रैः सूर्ये पूजिते सर्वाणि कार्याणि सिध्यन्ति // ' इति यामलादौ कथितत्वात् / / 943 // “राज्ञीपतिः" 944 इति / इडासुषुष्मणान्तश्चारिणी राज्ञी नाडी, तदधीश इति योगशास्त्रादावुक्तत्वात् / / 944 // . "ऋद्धिः" 945 इति / अर्धनम् ऋद्धिः, महासम्पत्स्वरूपत्वात् // 945 // "रुद्रः" 946 इति / रोदयति संहारकाले प्रजामिति रुद्रः / / 946 / / "रजः" 947 इति / रज्यते-अनुरज्यतेऽस्मिन् जन इति स तथा / सृष्टिसमये रजोगुणात्मकत्वाद् वा / / 947 // "रुचिप्रदः" 948 इति / रुचि:-धर्माभिलाषः, तं प्रददातीति सः // 948 // "रवि:" 949 इति / रूयते-स्तूयते लोकैरिति सः // 949 / / "रोचिष्णुः" 950 इति / रोचनशीलो रोचिष्णु:, निरन्तरं सर्वेषां रुच्यमानत्वात् / / 950 // "रोगहा" 951 इति / रोगं हन्तीति रोगहा, सर्वामयोच्छेदककत्वात् / / 951 // "रेणुः" 952 इति / रीयते-क्षीप्यते हिममिति रेणुः, त्रसरेणुरिति वा; सर्वस्यापि कार्यजातस्यादिभूतत्वात् / / 952 // "रेणवः" 953 इति / र:-वह्निः, ई-काम:, ताभ्यां नव:-स्तवो यस्य स तथा / / 953 // "रेवन्तः" 954 इति / रेवन्त:-सूर्यपुत्रः, अश्वानामधिष्ठाता देव:, तज्जनकत्वात् तथा // 954 // "हृषीकेशः" 955 इति / हृषीकाणाम्-इन्द्रियाणाम्, ईश:-स्वामी / अथवेन्द्रियाणि वशे यस्य वर्तते स परमात्मा हृषीकेशः / जगत्प्रीतिकरा: हृष्टाः 139