________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् ||930 // “नरः" 931 इति / 'न रयतीति नरः प्रोक्तः परमात्मा सनातनः / / ' इति व्यासोक्तेः / स्वस्थानप्रापक इत्यर्थः / नं-ज्ञानं राति-ददातीति वा // 931|| "निराकुल:'" 932 इति / निर्गत: आ-समन्तात् कुल:-बन्धनं यस्मात् सः // 932 // "निरहङ्कारः" 933 इति / निर्गतोऽहङ्कारो यस्मात् स तथा, स्वप्रतिमाभावात् / / 933 / / "निर्बन्धः" 934 इति / निर्गतो बन्ध:-बन्धनं यस्मात् स तथा // 934 // “निर्गुण:" 935 इति / निर्गता गुणा:-सत्त्वरजस्तमांसि यस्मात् स तथा // 935|| "निरञ्जनः" 936 इति / निर्गतमञ्जनम्-उपाधिरूपं यस्मात् स तथा // 936 // “निर्णयः" 937 इति / नि:-निश्चयेन नीयते-प्राप्यते जनैरिति सः निर्णयः, निश्चयः; तद्रूप इति वा / / 937 // “नित्यः" 938 इति / नियतं भावः-नित्य:, त्रैकालिकसत्तावान् इत्यर्थः // 938 // . “नित्योदित:" 939 इति / नित्यं-प्रतिदिनमुदितः, अन्यग्रहवन्न कदाचिदप्यस्ताभिलाषीत्यर्थः / / 939 / / * “नित्यगामी' 940 इति / नित्यं-सर्वदा गन्तुं शीलमस्येति स तथा / / 940 // . “नित्यरथः" 941 इति / नित्य:-अकृत्रिमो रथ:-यानं स्वरूपं वा यस्य स तथा / ‘स्वरूपे स्यन्दने रथे // ' इति मेदिनिः / / 941 // "राजा" 942 इति / राजते-दीप्यते इति राजा, चतुर्णामाश्रमाणां तत्तत्कर्मप्रवर्तकत्वेन तदधिपतिरित्यर्थः / / 942 / / 138