________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् विद्यते यस्य स तथा, सर्वेषामयमेव गुरुरित्यर्थः / / 919 // . .. “नयः" 920 इति / नयति-प्रापयति, अर्थान्मुक्तिमिति स तथा / नीतिप्रवर्तकत्वाद् वा / / 920 // "नैकरूप:" 921 इति / न विद्यते एकं रूपं यस्य स तथा, अनन्तरूपत्वात् // 921 // "नैकरूपात्मा" 922 इति / न विद्यन्ते एकरूपा आत्मानः-स्वभावा यस्य स तथा, अनेकस्वभावत्वात् / / 922 / / "नीलकण्ठः" 923 इति / नील: कण्ठो यस्य सः नीलकण्ठः, ईश्वरः; एकमूर्तित्वात् / 'एकमूर्तिस्त्रयो देवाः // ' इत्युक्तेः // 923 / / "नीललोहितः” 924 इति / नीलश्चासौ लोहितश्चेति कर्मधारयः, अनेकवर्णोपेतत्वात् / 'श्वेत: कृष्णस्तथा रक्तः सृष्टि-स्थित्यन्तयोगतः // ' इत्युक्तेः / / 924 // "नेता" 925 इति / नयति शुभमार्गे जनानिति नेता // 925|| "नियतात्मा" 926 इति / नियत:-संयतः, आत्मा-अन्त:करणं यस्य स तथा // 926 / / “निकेतनः" 927 इति / निकेतनं-गृहम्, सर्वेषामाश्रयभूत इत्यर्थः / निकेत्यते-निमन्त्र्यते यज्ञेष्वसाविति वा // 927|| “निक्षुभापति:" 928 इति / निर्गता शुभ येषां ते निक्षुभाः, नि:परिग्रहाः। तेषाम् आ-समन्ताद्भावेन पति:-स्वामी / 'शुभ् सञ्चने' इत्यस्य धातोः क्विबन्तस्य रूपम् / / 928|| "नन्दिवर्धनः" 929 इति / सर्वाभिरुपपत्तिभिः समृद्धिः-नन्दिः, तद्वर्धन:तत्पूरकः / / 929 / / "नन्दनः" 930 इति / नन्दयति-आनन्दयति सर्वान् भक्तान् इति स तथा 137