________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "मङ्गलकर्ता" 898 इति / मङ्गलानि-श्रेयांसि भक्तानां करोति- .. निष्पादयतीति स तथा / / 898 // “मन्त्रः" 899 इति / मन्त्रयतीति मन्त्रः, नास्तिकैरननुभूतस्वरूपः // 899 / / / / इति पादसाहश्रीअकब्बरसूर्यसहस्रनामाध्यापकश्रीशत्रुञ्जयतीर्थकरमोचनाद्यनेकसुकृतविधापकमहोपाध्यायश्रीभानुचन्द्रगणिविरचितायां तच्छिष्याष्टोत्तरशतावधानसाधनप्रमुदितपादशाहश्रीअकब्बरप्रदत्त खुस्फहमा'ऽपराभिधानमहोपाध्यायश्रीसिद्धिचन्द्रगणिशोधितायां शेखश्रीअबुलफजलकारितायां / चतुश्चत्वारिंशदधिकश्रीसूर्यसहस्रनामटीकायां नवमशतविवरणं समाप्तम् / / "मन्त्रमूर्तिः" 901 इति / मन्त्रा:-वेदमन्त्राः, तन्मयी मूर्तिर्यस्य स तथा। 'मन्त्रमयी देवता // ' इति मीमांसकोक्तेः // 901 // "मरीचिमाली" 902 इति / मरीचिभिर्मालते-शोभते इत्येवंशीलो मरीचिमाली / मरीचीनां मया-शोभया लीयतेऽस्मिन्निति वा // 902 / / "मृत्युः" 903 इति / म्रियतेऽनेनेति मृत्यु:, रुद्ररूपेण संहारकत्वात् / / 903 // "मरुतामीश्वरेश्वरः" 904 इति / मरुतामीश्वराः-इन्द्राः, तेषामपीश्वरः // 904|| "मरुतांपति:" 905 इति / मरुतां-सर्वगायित्रीमन्त्राणां पति:-अधिष्ठाता। 'मरुद् देवे समीरे ना गायित्री-ग्रन्थि-पर्णयोः // ' इति मेदिनिः॥ मिष्टाचारः" 906 इति / मिष्ट:-शुभफलप्रद आचारो यस्य स तथा // 906 // “मति:" 907 इति / मननं-मतिः, तत्प्रदातृत्वात् तन्नामता / / 907|| "मतिमान्" 908 इति / मति:-अनिर्वचनीया धीविद्यते यस्य यस्मिन् वा, स तथा / / 908 // "नाकारः" 909 इति / न विद्यते आकारो यस्य स तथा, नाकारादित्वाद् अनभावः, निरंशत्वाद् / / 909 // 135