________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "मेरुमेयः" 886 इति / मेरुणा मीयते, अर्थाद् द्वीपान्तर्गमनं यस्य स तथा / / 886 // "मुकुटी" 887 इति / मुकुटं-शिरोभूषणम्, तदस्यास्तीति सः / मु:मुक्तिः, तस्याः कुट:-वासः, तद्वानिति वा / 'स्त्रियां मुर्मोक्षणे मोक्षः॥' इति मेदिनिः / 'वासः कुटो द्वयोः शाला // ' इत्यमरः / / 887 // "मनुः" 888 इति / मन्यते इति मनुः, कालविशेषः; तज्जनकत्वात् / / 888 // "मुनिः".८८९ इति / मननशील:-मुनिः, सर्वविषयकभावनावानित्यर्थः // 889 // “मन्दारः" 890 इति / मन्दन्ते-मोदन्ते देवा अनेनेति मन्दारः, पारिजातकः / नभस: शोभाकारित्वेन तत्प्रतिम इत्यर्थः / मन्देषु-पापिषु तदुच्छेदकारि अरं-चक्रं यस्येति वा / / 890 // . “मन्देहक्षेपण:" 891 इति / मन्देहा:-राक्षसाः क्षिप्यन्तेऽनेनेति स तथा // 891 // "मनोहरः" 892 इति / मन:-चित्तं हरतीति मनोहरः, रुचिराकारधारित्वात् / / 892 // . "मनोहररूप:" 893 इति / मनोहरं-चित्ताहादजनकं रूपं यस्मात् स तथा / / 893 / / "मङ्गलम्' 894 इति / मङ्गलं-शुभकर्म, तन्मयत्वात् / / 894 // . “मङ्गलालयः" 895 इति / मङ्गलस्य-अङ्गारकस्य, आलय:-स्थानं. यस्मात् स तथा। प्रथमत: श्रीसूर्यादङ्गारको मेषं वृश्चिकं राशिद्वयं प्राप्तवानिति प्रसिद्धेः / / 895 // . "मङ्गलवान्" 896 इति / मङ्गलानि विद्यन्ते यस्य यस्मिन् वा स तथा / / 896 / / "मङ्गली" 897 इति / प्रतिदिनमुदयो मङ्गम्, तदस्यास्तीति स तथा // 897|| 134