________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "विजयप्रदः" 627 इति / विजयं प्रददातीति सः, तदुपास्तिकृतां सर्वत्र जयोपपत्तेः / वय:-पक्षिणः, तेषां जयम्-उल्लासं प्रददातीति वा / / 627 // "विजेता" 628 इति / विशेषेण-अपुनर्भावेन जयति कर्मादिशत्रूनिति विजेता // 628 // “विचक्षणः" 629 इति / विशेषेण चष्टे इति विचक्षणः, निपुण: / प्राणिनां स्व-स्वकर्मानुरूपफलजनकत्वात् / / 629 // .. “विचित्ररथ:" 630 इति / विशिष्टानि चित्राणि यस्मिन्, एवंविधो रथों यस्य स तथा / वियद्गामित्वेन विशिष्टं चित्रं जनानां यस्माद्, एवंविधो रथो यस्येति वा / / 630 // “विवस्वान्" 631 इति / विव:-तेजो विद्यते यस्य स तथा। विशेषेण वसुद्रव्यम्, आ-समन्ताद् भक्तेभ्यः अनति-ददातीति वा // 631|| “विविधः" 632 इति / अनेकप्रकार: नानारूपत्वात् / वय:-पक्षिण: .... उलूकादयो विद्यन्ते येनेति वा // 632 // "विविधासनः" 633 इति / विविधानि आसनानि-इन्द्रपदादीनि यस्मात् स तथा // 633 // "वज्रधरः" 634 इति / वज्र-शस्त्रविशेषं धरतीति सः, इन्द्ररूपेण तद्धारकत्वात् / / 634 // “आसः" 635 इति / विशेषेण आसन्ते पदार्था अस्मिन्निति सः, कल्पान्ते सर्वेषां तदुदरान्त:पातित्वात् / / 635|| "व्याधिहा" 636 इति / व्याधिं हन्तीति व्याधिहा, सर्वरोगोपशामकत्वात् / वि:-पक्षी चक्रवाकः, तस्य आधि:-विरहोद्भवा पीडा, तां हन्तीति वा / / 636 / / "व्याधिप्रणाशन:' 637 इति / व्याधिं प्रणयन्तीति व्याधिप्रणाः, असुराः। ते अश्यन्ते येनेति सः / / 637|| 111