________________ श्रीसूर्यसहस्रनामसङ्ग्रहवयम् “विद्या" 615 इति / विद्याश्चतुर्दश प्रसिद्धाः, गुण-गुणिनोरभेदविवक्षया तद्रूप इत्यर्थः / वेत्तीति वित्, बृहस्पति: / तं मित्रबुद्ध्या यातीति वा / / 615 / / “विद्यावान्" 616 इति / विद्याः पूर्वोक्ता विद्यन्ते यस्य यस्मिन् वा स तथा // 616 // “विद्याराजः" 617 इति / विद्यानाम्-अष्टादशविद्यानां राजा-प्रभुः, स्वातन्त्र्येणैवोपदेष्ट्रत्वात् / विद्याभी राजत इति वा / / 617|| “विद्योतनः" 618 इति / विशेषेण द्योतयति जगदिति विद्योतनः / वीनांपक्षिणां द्योतं नयतीति वा // 618 // “विद्युद्वान्' 619 इति / विशिष्टा चासौ धुन्च तद्वान् / / 619 / / “विद्युत्' 620 इति / आकाशे विद्युदिव राजत इत्यभेदोपमायां विद्युत् // 620 // "विदिताशयः" 621 इति / विदिता आशया:-सर्वलोकानां मनोगतभावा येन स तथा // 621 // "विपाप्मा" 622 इति / विगत:-नष्टः पाप्मा-पापं यस्मात् सः // 622 / / "विभावसुः" 623 इति / विभा:-कान्तयः, वसूनि-रत्नानि यस्य स तथा // 623 // "विभवः" 624 इति / विशिष्टं भवति विश्वमस्मादिति सः / विगतो भव:संसारो यस्मादिति वा। विशिष्टः-जगत्संहारकारी भव:-रुद्रो यस्मादिति वा। विभव:-सम्पदिति वा // 624 // “वचसांपति:" 625 इति / वचसां-वाचां पति:-स्वामी, तासां तदुत्पत्तिहेतुकत्वात् // 625 // "विजयः" 626 इति / विशिष्टो जयो जायते यस्मात् स तथा। विजयते ज्ञान-वैराग्यैश्वर्यादिभिर्विश्वमिति वा / / 626 // 110