________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् समीहितार्थाधिकप्रदातृत्वात् / / 603 / / "विहारी" 604 इति / विहरतीत्येवंशीलो विहारी, अन्यकार्यकारित्वेऽपि प्रायशो भ्रमणशीलत्वात् / / 604 // “विहगः" 605 इति / वीन्-पक्षिणो हन्तीति विहः, व्याधः / तं गमयतिनाशयतीति स तथा / 'वि: श्रेष्ठेऽतीते नानार्थे आकाशे विहगेऽपि च // " इत्येकाक्षरः // 605 // "वहनः" 606 इति / अग्नौ हुतामाहुतिं वहतीति वहन: अभेदोपमायाम्। वहनं-यानपात्रमिति वा, संसारसागरे निमज्ज्जनानामाधारभूतत्वात् // 606 // “विहङ्गः" 607 इति / विहङ्ग इव विहङ्गः, सर्वदा व्योमचारित्वात् / / 607 // "विहङ्गमः" 608 इति / विहायसा-आकाशेन गच्छन्तीति विहङ्गाः, मरीचिप्रभृतयो मुनयः / तान् मन्यते इति सः / विहायसा-आकाशेन गमयति ज्योतिश्चक्रमिति वा, निपातात् साधुः // 608 // , "विहित:" 609 इति / सर्वकर्मस्वाधिष्ठातृत्वेनोचितः / विशेषेण सर्वेषां हित इति वा, सर्वोपकारकत्वात् / / 609 // . "वदान्यः" 610 इति / दानशौण्डः / सर्वसाधारणमिति चेद् ! न, मुक्तिप्रदातृत्वेन सर्वेभ्योऽधिकदातृत्वात् / / 510 // “विधिः" 611 इति / विधिः-कर्तव्यार्थोपदेशः, तदुपदेष्टुत्वात् तन्नामता // 611 // "विधाता" 612 इति / विदधाति-पुष्णातीति विधाता, सृष्टेरनन्तरं त्रिजगत्पालकत्वात् / विशेषेण दधाति भूधरानिति वा / / 612 / / “विधेयः" 613 इति / विधातव्यो विधेयः, सर्वेषामवधारयितुं योग्यत्वात् / विधीयन्ते कर्माण्यस्मिन्निति वा // 613 // “विद्वान्" 614 इति / वेत्तीति विद्वान्, सर्वविषयकज्ञानवानित्यर्थः // 614 / / 109