________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "वायुरत:" 594 इति / वायु:-देवविशेषः, स रत:-अनुरक्तो यस्मिन् स तथा // 594 // "वाग्विशारदः" 595 इति / वाचि-वेदरूपायां विशारदः-प्रथमाध्यापक इत्यर्थः / / 595 // "वाग्मी" 596 इति / वाग्-वाणी ब्रह्ममयी विद्यते यस्य स तथा // 596 / / “वारिदः" 597 इति / वारि-जलं ददातीति स तथा। 'अग्नौ प्राप्ताहुतिः सम्यगादित्यमुपतिष्ठते। आदित्याज्जायते वृष्टिवृष्टेरनं ततः प्रजाः // ' इत्युक्तेः / / 597 // "वारण:" 598 इति / वारयति शत्रूनिति वारण: / वारम्-अर्थाद् जनसमुदायं नयति स्वस्थानमिति वा वारः / 'सूर्यादिदिवसो वारोऽवसरवृन्दयोः // ' इति विश्वः // 598 // "वसुदाता" 599 इति / वसु-द्रव्यं ददातीति सः // 599 / / "वसुप्रदः" 600 इति / वसु-तेज: प्रकृष्टं ददातीति स तथा, तदुपास्तिकृतां सर्वाधिकतेजस्कत्वात् / / 600 // // इति पादसाहश्रीअकब्बरसूर्यसहस्रनामाध्यापकश्रीशत्रुञ्जयतीर्थकरमोचनाद्यनेकसुकृतविधापकमहोपाध्यायश्रीभानुचन्द्रगणिविरचितायां तच्छिष्याष्टोत्तरशतशतावधानसाधनप्रमुदितपादसाहश्रीअकबरप्रदत्त 'खुस्फहमा' ऽपराभिधानमहोपाध्यायश्रीसिद्धिचन्द्रगणिशोधितायां शेखश्रीअबुलफजलकास्तिायां चतुश्चत्वारिंशदधिकश्रीसूर्यसहस्रनामटीकायां षष्ठशतविवरणं समाप्तम् / / “विश्वप्रियः" 601 इति / विश्वेषां-सर्वेषां प्रिय:-वल्लभ: सर्वसाधारणत्वात् / विश्वं प्रियं यस्येति वा स्वकार्यत्वात् // 601 // "वसुमान्' 602 इति / वसु-तेजो द्रव्यं वा विद्यते यस्य स तथा // 602 / / “विसृजः" 603 इति / विशेषेण सृजतीति विसृजः, पृषोदरादित्वादच्, 108