________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् / तेषाम् ई-लक्ष्मी ददातीति वा / चतुर्भिः प्रमाणैर्वेदः-ज्ञानं यस्येति वा / / 581 / / "चतुर्वेदमयः" 582 इति / चत्वारो वेदाः प्रधाना यस्मिन् स तया // 582 // "चतुर्मुखः" 583 इति / चतुर्णां वेदानां मुखं-प्रणवः, तत्स्वरूपत्वात् / चतसूषु दिक्षु मुखं यस्येति वा, सर्वत्र सम्मुख इत्यर्थः / / 582 // "चित्राङ्गदः" 584 इति / चित्राणि-विचात्राणि, अङ्गानि-शरीराणि ददातीति स तथा / चित्रम्-आश्चर्यकृदङ्गं ददातीति वा // 584 // "वासुकिः" 585 इति / वसुकस्यापत्यं वासुकिः, वसुन्धराधारकत्वात् / व:-वरुणः, तस्य असव:-जलानि किरतीति वा / / 585 / / "वासरस्वामी" 586 इति / वासर:-दिवसः, तस्य स्वामी, तत्प्रवृत्तेस्तदधीनत्वात् / वं-वरुणम्, आ-समन्तात् सरतीति वासरः, इन्द्रः। तस्य स्वामी तद्ध्येयत्वात् / / 586 / / . . “वासरप्रभुः" 587 इति / वासराणां-पुण्यवासराणां प्रभु:-देवतेत्यर्थः / वासं रान्तीति वासराः, स्थानाधिष्टारः पुरुषाः / तेषां प्रभुः-समर्थ इति वा // 587 // "वासरप्रियः" 588 इति / वासरे भवा वासराः, जीवविशेषाः / तेषां प्रिय:-इष्टः / / 588 // "वासरेशिता" 589 इति / वास:-गृहम्, तद् रान्ति ते वासराः, गृहस्थाः / तेषां ईशिता-विशेषेणाराध्य इत्यर्थः / / 589|| "वासरेश्वरः" 590 इति / वासं-सौगन्ध्यं रान्ति-आददते इति वासराः, ऋतवः / तेषामीश्वरः तत्प्रवर्तकत्वात् / / 590 // “वाहनार्तिहरः" 591 इति / वाहनानां-स्वकीयाश्वानां निरन्तरं निरालम्बे पथि भ्रमताम्, अति-श्रमं हरतीति स तथा // 591 // "वायु:" 592 इति / वाति-निरन्तरं परिस्पन्दं करोतीति स तथा॥५९२।। "वायुवाहनः" 593 इति / वायुवच्छीघ्रगामी वाहनं यस्य स तथा / / 593 // 107