________________ श्रीसूर्यसहस्रनामसङ्ग्रहवयम् "वषट्कारः" 526 इति / वषट्-आहुतिशब्दविशेषः, तस्य कारः-करणं यदुद्देशेन स तथा // 526 // "ज्यायान्" 527 इति / अतिशयेन ज्येष्ठ: ज्यायान्, सनातनत्वात् / / 526 / / "जामदग्न्यजित्' 528 इति / जमदग्नेरिदं जामदग्न्यं, तस्य प्रतिज्ञावचस्तज्जयतीति तथा / जमदग्निना सूर्यमण्डलभेदे प्रतिज्ञाते वरदानेन तन्निवारणात्। जमदग्नेरयं जामदग्न्यः-परशुरामः, तं रामरूपेण जयतीति वा // 528 // "चारुचरित:" 529 इति / चारु-मनोहारि चरितं-भक्तोद्धरणलक्षणं यस्य स तथा / चारूणि-पुण्यकारीणि कर्माणि चरन्तीति चारुचराः, मुनयः / तैः इत:-प्राप्त: इति वा // 529 // 'जाठरः" 530 इति / ब्रह्माण्डजठरवर्तित्वाद् जाठरः, जाठरोऽग्निभेदस्तद्रूपत्वात् वा / जायन्ते इति जाः, उत्पत्तिभाजः / ठा:शून्याः, तान् राति-आदत्त इति वा, ज्ञानशून्यप्राण्यनुग्राहक इत्यर्थः / / 530 // "जातवेदाः" 531 इति / जातवेदा:-अग्निः, तद्रूपेणैव सर्वे यज्ञांशभोक्तृत्वात् / जाता वेदा यस्मात् स ब्रह्मा, तम् अस्यतीति वा; प्रतिकल्पं ब्रह्मान्तरस्थापनात् // 531|| . "छन्दवाहनः" 532 इति / छन्दानि-स्वाधीनानि वाहनानि यस्य यस्माद्वा स तथा / छन्दा:-अभिप्रायाः, त एव वाहनानि यस्येति वा, स्वाभिप्रायेणैव सर्वत्र गमनात् / 'छन्दो वशेऽप्यभिप्राये // ' इति मेदिनीकारः / छं-निर्मलं ददातीति छन्दः, अर्थात् पानीयम् / तस्य वाहः-मेघ:, तं नयतीति वा। 'छ: सूत्रछेदके ख्यातस्तथा संवरणे भवेत् / छं च छन्दसि तडिति निर्मले च तथा स्मृतः // ' इत्येकाक्षरः // 532 // "योगी' 533 इति / योग:-सकलमूर्तद्रव्यसंयोगः, सोऽस्वास्तीति सः, 101