________________ // 158 // // 159 // // 160 // // 161 // // 162 // // 163 // सा परिवाजिकैवास्य, विकारस्य तु भेषजम् / कार्यं पर्येषणं तस्यास्तत् कुमाराविलम्बतः ततोऽहं प्रहितस्तेन, तदन्वेषणकाम्यया / पश्यामि स्मान्तराले तां, नगराभिमुखं व्रजन् नत्वा पृष्टा च सा चित्रपट्टिकोदन्त एष कः / केयं कन्या किमर्थं चोच्चलिताऽसि निवेदय सा प्राह शृणु भदैतत्सम्बन्धमिह विद्यते / नीलकण्ठस्य नृपतेर्देवी शिखरिणी शुचिः प्राप्ताऽहं तद्गृहे भिक्षाकृते दृष्टो विषादभाग् / सर्वः परिजनः पृष्टा, देवी तत्कारणं जगौ मयूरमञ्जरी पुत्री, जीवितादपि मेऽधिका। . बन्धुले ! ते प्रतीतैव, सेयमातपनोदयात् ' केनापि हेतुना शून्या, जाता तीव्रज्वरारतिः / भूषणानि न गृह्णाति, नाङ्गरागं तनोति च नास्वादयति ताम्बूलं, कन्दुकेन न खेलति / - मुहुर्धावत्यभिद्वारं, सखिभ्यः परिरुष्यति तन्मां भगवति ! ब्रूहि, किमेषा चिन्तयत्यहो / कदा च लप्स्यतेऽभीष्टं, निमित्तेऽसि स्फुरन्मतिः दृष्ट्वा होरां ततः प्रोक्तं, ध्वजादिन्यासतो मया / एषा जीवं चिन्तयन्ति, नरं नृपसुतं हरिम् ध्वजो धूमस्तथा सिंहः, श्वा बलीवर्द इत्यपि / खरो गजेन्द्रो ध्वाङ्क्षश्च, अष्टायाः परिकीर्तिताः कालवासरवेलानां, मुहूर्तककुभोस्तथा। नक्षत्रग्रहयोश्चैव, निसर्गबलमष्टमम् // 164 // // 165 // // 166 // // 167 // / / 168 // ' // 169 // Ge