________________ // 146 // // 147 // // 148 // // 149 // // 150 // // 151 // रूक्षः शीतो लघुः सूक्ष्मश्चलोऽथ विशदः खरः / विपरीतगुणैव्यैर्मारुतः संप्रशाम्यति सस्नेहमुष्णं तीक्ष्णं च, द्रवमम्लरसं पटु / विपरीतगुणैः पित्तं, द्रव्यैराशु प्रशाम्यति गुरुशीतमृदुस्निग्धमधुरस्थिरपिच्छलाः / श्लेष्मा(म)णः प्रकृति यान्ति, विपरीतगुणैर्गुणाः कर्फ स्वाद्वम्ललवणाः, कषायकटुतिक्तकाः / जनयन्त्यनिलं पित्तं, कट्वम्ललवणा रसाः स्वाद्वम्ललवणा वायुं, कषायस्वादुतिक्तकाः / जयन्ति पित्तं श्लेष्माणं, कषायकटुतिक्तकाः अजीर्णप्रभवा रोगास्तच्चाजीर्णं चतुर्विधम् / आमं विदग्धं विश्र(ष्ट)ब्धं, रसशेषं तथा परम् आमे सदृशगन्धः स्याद्, विदग्धे धूमगन्धता / विश्र(ष्ट)ब्धे गात्रभङ्गश्च, रसशेषेऽनद्वेषिता / आमेषु वमनं कुर्याद्, विदग्धे चाम्लकं पिबेत् / विश्र(ष्ट)ब्धे स्वेदनं कुर्याद्, रसशेषे तथा स्वपेत् इत्थं स्थिते कुमारस्याजीर्णं तापेन लक्ष्यते / पित्तं विदग्धावस्थेन, क्षोभितं तेन वायुयुग् अन्तस्तापश्च शूलं च, वर्धतेऽस्य ततस्तनौ / प्रकृत्याद्यविदन् यत्तत्, किं ब्रूर्षे विभ्रमो जगौ कंपोलः प्राह विज्ञातं प्रकृत्याद्यखिलं मया / विकारोऽयमजीर्णस्य, कुमारस्यापरस्य न ततोऽहो मूढताऽस्येति, ध्यात्वा चक्रे स्मितं हरिः / / प्राहुर्वयस्याः संसिद्धं, कार्यं नस्त्वद्विनोदतः // 152 // // 153 // // 154 // // 155 // // 156 // // 157 // 77