________________ श्रुत्वेदं शून्यहुङ्कारं, कुमारो व्यग्रधीर्ददौ / पुनः पपाठ विस्पष्टधृतये पद्मकेसरः // 112 // चित्रकन्याहृतस्वान्तस्तथाऽप्यस्थात् स तादृशः। . स्मित्वा सर्वे ततोऽपश्यन्, वदनानि परस्परम् . // 113 // चेतो हरिकुमारस्य, प्रत्यावृत्तं तदीक्षणात् / श्लोकं श्रुत्वाऽथ तं तेनावष्टम्भाद् दत्तमुत्तरम् // 114 // ततोऽतिविस्मितः पद्मकेसरोऽन्यत् पुनर्जगौ / कथं बध्नाति काः प्राज्ञः, के गीतरसलम्पटाः // 115 // तदपि प्रत्युदतरद्, विचिन्त्य, हृदये हरिः / सारङ्गाः पप्रच्छाथ विलासोऽन्यज्जैनेन्द्रमतवासितः // 116 // प्राबल्यं केन वाच्यं कलयति रसनां कं भवेत् पक्षिणः का, संबुद्धिर्बुद्धिमन्तः क्व च विरचनया यत्नमुल्लासयन्ति / क: प्रार्थ्य: केन तुल्योऽलस इह गरगी:(?) कीदृशी स्यात् पुराऽर्था, व्यापद्वल्लीकृपाणी जयति जिनपतेः कीदृशी ब्रूहि वाणी // 117 // हरिजंगौ बृहद् व्यस्तसमस्तं खल्विदं ततः / / पुनः पठ पपाठासौ, विचार्योदतरद्धरिः // 118 // तच्छ्रुत्वा विस्मितश्चित्ते, पुनः पप्रच्छ तादृशम् / / कुमारस्य विलासार्थी, विलासः प्रश्नकोविदः // 119 // पूजायां किं पदं स्यात् कुरु दहनवपुर्बोधनं निःस्तनः कः, शून्यं कीदृग् पुरं स्याद् वनमपि च घनं कीदृशं नैति शोभाम् / का वेश्या का महत्री समिति भवति कः सत्त्वभाजां भटानाम्, धावल्लावण्यपुरे वपुषि जिनेपतेः का निमज्जन्ति नित्यम् // 120 // तदपि प्रत्युदतरद्, विस्फुरबुद्धिपाटवः / * हरिः परिस्मृतव्यस्तसमस्तपदपद्धतिः . // 121 //