________________ कथमयमनुभूतानन्तजन्मप्रतानः, प्रभवति गुटिका कास्त्री किमस्य प्रतीपा / किमिदमखिलमन्ताममित्राद्यनेनो . दितमिति हृदि भव्यो विस्मितस्तिष्ठति स्म // 756 // कलयति मुखरागाद्धीविशालैनमर्थम्, रहसि तदिदमस्याः प्रश्नयिष्यामि पश्चात् इति मनसि स दध्यावागमो वेत्ति सर्वम्, सदसि सुललिता तु स्मेरनेत्रा शृणोति संसारिजीवेनोचेऽथ, प्रोक्तोऽहं निजभार्यया / त्वयाऽऽर्यपुत्र ! गन्तव्यमानन्दनगरेऽधुना - // 758 // तुष्टाऽस्मि त्वयि दत्तोऽयं, सुहृत् पुण्योदयश्च ते। . सहायः सागरश्चायं, मूढतारागनन्दनः // 759 // तद्वचः प्रतिपद्याहं, गुटिकां प्राप्य तादृशीम् / आनन्दनगरे ताभ्यां, सहितो गन्तुमुद्यतः, // 760 // इति सपदि निशम्य घ्राणदौर्जन्यवार्तामपि च निचितगूढस्तेयमायाविपाकम् / य इह निभृतचित्तः स्यात् स्वतत्त्वप्रबुद्धः, स भुवि शुचियश:श्रीभोगसौभाग्यमेति // 761 // : पालन // 1 // // सप्तमः स्तबकः // अथास्त्यानन्दनगरं, बहिरङ्गमनोहरम् / युक्तं सुपर्वभिर्लोकः, पुरन्दरपुरोपमम् तत्रास्ति केसरी भूपः, प्रत्यर्थिद्विपदर्पहृत् / गुणरत्नदरी देवी, तस्यास्ति जयसुन्दरी अस्ति तन्नगराधारो, वाणिजो हरिशेखरः / भार्या बन्धुमती तस्य, सुवंशा गिरिभूरिव // 2 // // 3 // 64