________________ // 744 // मुच्यतां कृपया तन्मे, सर्वस्वं गृह्यतामिदम् / मुक्तस्ततोऽहं राज्ञा तत्, सरलस्यापितं धनम् उक्तं हितार्थिना चेदं, पुत्रोऽयं तव तिष्ठतु / मदभ्यर्णे तव गृहे, न युक्तोऽयं विषाङ्कुरः // 745 // दुश्चेष्टितैः पराभूतो, नष्टः पुण्योदयोऽथ मे / श्रेष्ठिना प्रतिपन्नं तद्, वचनं भूपतेस्तदा // 746 // स्थितो धिक्कारनिहतो, दीनोऽहं राजमन्दिरै / शान्ते बहुलिकास्तेये, राजदण्डभयान्मम // 747 // तथाऽपि सर्वकार्येषु, लोको मां परिशङ्कते / मय्येवान्यकृतं चौर्य, दत्ते प्रत्येति नो वचः // 748 // विद्यासिद्धेन केनापि, राज्ञः श्रीगृहमन्यदा / मुषितं नैव स ज्ञातो, दोषो मय्येव सोऽर्पितः // 749 // ततोऽहं गाढरुष्टेन, राज्ञा बाढं कदर्थितः। .. सरलस्याऽपि वचनं, नादृतं तीव्रतेजसा . // 750 // उल्लम्बितोऽहं विरटन्, जीर्णा प्राग्गुटिका मम / भवितव्यतया दत्ता, गुटिकाऽभिनवा ततः // 751 // गतः पापनिवासायां, नगर्यामन्त्यपाटके / तत्रानुभूय दुःखानि, गुटिकान्तरलाभतः / / / / 752 // पञ्चाक्षपशुसंस्थाने, पुरे गत्वा गतस्ततः / . मुक्त्वाऽसंव्यवहाराख्यं, सर्वेषु नगरेष्वहम् // 753 // प्राप्तो बहुलिकादोषात् तिर्यकत्रीत्वमनन्तशः / ताभ्यां मे स्तेयमायाभ्यां, स्थाने स्थाने न किं कृतम् // 754 // निगदति भवजन्तावित्यदो धीविशाला, समुदितभवभीतिश्चिन्तयामास चित्ते। अहह भुवि दुरन्तः स्तेयमायाविकार-स्त्यजति तदपि नैते बोधहीनो मनुष्यः