________________ // 737 // स्थितो गृहेऽहं रात्रौ च, स्तेयवीर्यविजृम्भितम् / अर्धरात्रे गतो हट्ट, हर्तुमन्तःस्थितं धनम् गतो ब्रटं हर्तमन्त:स्थितं धनम // 732 // दृष्टचोद्घाटयन् हट्टमागतैः दाण्डपाशिकैः / मुक्तस्तैः प्रत्यभिज्ञाय, किं करोमीति चिन्तिभिः // 733 // तदन्तर्धनमुत्खातं, मयोद्घाट्यापणं ततः / तस्यैव पश्चाद्भूभागे, निखातं चापणस्य तत् // 734 // रात्रौ विभातप्रायायां, कृतो हाहारवो महान् / मिलितो नागरो लोकः, संप्राप्तः सरलोऽपि च // 735 // आविर्बभूवुः प्रच्छन्नाः, स्थिता ये दाण्डपाशिकाः / . . सरलः प्राह किं जातं, मयोक्तं मुषितं धनम् // 736 // सोऽवक् त्वया कथं ज्ञातं, मयोक्तं त्वां विनाऽधृतिः / इहागां रात्रिशेषेऽहं दृष्टमेतत् तदेदृशम् दध्युः श्रुत्वेत्यदो दाण्डपाशिकास्तस्करो ह्ययम् / अस्याहो वञ्चनाशक्तिरहो विश्रम्भघातिता // 738 // ततस्ते जगदुः श्रेष्ठिन् !, चित्ते भव निराकुलः / लब्धोऽस्ति चौर इति तैः, साकूतमहमीक्षितः // 739 // जातं ततो मम भयं, ग्रहीष्यामः सलोनकम् / इत्यालोच्य गतास्तावत्, प्रचण्डा दाण्डपाशिकाः // 740 // लचितं तद्दिनं भूरिविकल्पाकुलितस्य मे / गच्छन् रात्रौ धनं हृत्वा, गृहीतो दाण्डपाशिकैः // 741 // जातः कोलाहलो लोको, मिलितो नागरोऽखिलः / / रिपुसूदनराज्ञोऽग्रे, नीतोऽहं दाण्डपाशिकैः // 742 // तेन वध्यतयाऽऽज्ञप्तः, सरलोऽथ समागतः / / पतित्वा पादयो राज्ञः, प्राह मेऽसौ प्रियः सुतः // 743 // 2